________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय कल्पवृ०
॥ २१ ॥
525252
15255252
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सामी सुणड़ अतुलबल बल जाणीसि इहेव हीअडा । अभितर मड् गहिओ जइस कि नीकलि देव ! ॥४२॥ एवं स्तुत्वा प्रभुं भक्त्या गागल्यङ्गभवा तदा । प्रणम्य पितरं पत्युः समीपं समुपागमत् ॥ ४३ ॥ मृगध्वजोऽपि सर्वज्ञं प्रणम्य गागलिं पुनः । यावच्चलितुकामोऽभूत् तावत्कीरो जगावदः ॥ ४४ ॥ मत्पृष्ठौ भवताssगम्यं त्वरितं त्वरितं नृप ! । ततोऽचलद् नृपः : कीर- पृष्ठौ पत्नीसमन्वितः ॥ ४५ ॥ इतश्चन्द्रवतीपत्न्या पत्यूराज्ये स्वसोदरम् । आनीय वेष्टयामास नेतुं नगरमञ्जसा ॥ ४६ ॥ सोsपि मृगध्वजं भूप-मागतं चावगत्य तु । गत्वा सन्मुखमाचष्ट पातुं ते पुरमागमम् ॥ ४७ ॥ त्वत्सेवकैरहं शत्रुः कृत्वेति पुरमध्यतः । सम्प्रविशन्निषिद्धस्तु पूर्या बहिः स्थितस्ततः ॥ ४८ ॥ मृगध्वजो जगौ वर्य कृतं तु भवताऽधुना । रक्षितं नगरं यस्मात् त्वया मे चन्द्रशेखर ! ॥ ४९ ॥ ततोऽभ्येत्य पुरीमध्ये मृगध्वजो लसन्महम् । तस्यै पत्न्यै ददौ सम स्फारं वासकृते तदा ।। ५० ।। मृगध्वजविसृष्टोऽथ चन्द्रशेखर ईयिवान् । मृगस्तत: पपालोव न्यायमार्गेण सन्ततम् ॥ ५१ ॥
कीरो जितारिजीवस्तु स सुरः स्वर्गतश्च्युतः । अवातरत् ऋषेः पुत्र्याः गर्भे शोभनवासरे ॥ ५२ ॥ क्रमाज्जाते सुते पित्रा कृत्वा जन्मोत्सवं महत् । शुकेति प्रददे नाम सर्वस्वजनसाक्षिकम् ॥ ५३ ॥ कौमुद्या उत्सवेऽन्येद्यु-भूमीनाथः प्रियायुतः । गत्वोद्याने निविष्टः सन् चूतस्याधो जगाविति ॥ ५४ ॥
For Private and Personal Use Only
1252525 25 25 25 25 25 25525
॥ २१ ॥