________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
भग्नं रामबलं वीक्ष्य सुधीद उस्थितो युधे । निवार्य हनुमाँस्तं च कौणपान् हन्तुमुत्थितः ।। ७६६ ॥ तदा माली धनुःशाली खड्गमुल्लालयंच खे । युद्धं हनुमता कर्तु-मुत्तस्थौ यमसोदरः ॥ ७६७ ॥ हनुमान्मालिनं चक्रे निरस्त्रं करलाधवात् । नंष्ट्वा माल्यपि शरणं दशास्यस्य ययौ तदा ।। ७६८ ॥
अथाऽस्तं तरणौ याते रामेण प्रेषितोऽङ्कदः । गत्वा दशाननोपान्ते जगौ सीता समर्प्यताम् ॥ ७६९ ।। शत्रुज्जयम
नो चेत्ते सकुटुम्बस्य रामान्मृत्युमुपागतम् । हक्कितोऽथ दशास्येन पुनरङ्गद ऊचिवान् ॥ ७७० ।। कल्पवृ०
रक्षोदुर्भिक्षमाधातु मवतीर्णोऽस्ति यः क्षितौ । तस्य रामस्य दूतोहं मनस्तस्य च वालिनः ॥ ७७१ ॥ 1३८४॥
शिरोभिर्मा देवी शिव इव न ते दास्यति पुनः, प्रबन्धं पश्याधः सरस इव कैलाससुभटः । हितं तु त्वां ब्रमो मम जनकदोर्दण्डविजय-बलात् कीर्तिस्तम्भं त्यज कमलबन्धो ! कुलवधूम् ॥ ७७२ ।। सन्धौ वापि गृहे वापि मयि द्यूते दशाननी । अक्षिता वा क्षिता वापि क्षितिपीठे लुठिष्यति ॥ ७७३ ॥ एवं जाते द्वितीयेऽति रामरावणयोरपि । ततः स्वस्वरले गत्वा बभूवुः सुस्थिता भटाः ॥ ७७४॥ अथ वायुसुतो वैरि-बलं निघ्नस्तदाऽभितः । भ्रान्त्वाऽरातिचममध्ये स्वसैन्यं समुपागमत् ॥ ७७५ ।।
कुम्भकर्णोऽसिघातेन निघ्नन् रामबलं तदा । सुग्रीवेण समं युद्धं चक्रे शमनसोदरः ॥ ७७६ ॥ । सुग्रीवेण निरस्तास्त्रः कुम्भकर्णः कृतस्तदा । भामण्डलो जघानाऽथ राक्षसान भूरिशोऽभितः ॥ ७७७ ॥
seSMSSES
la252525252STSSISCS2SCS2
In३८४॥
For Private and Personal Use Only