________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
mmmmmmmmmmmmmmmmm
शत्रुजय कल्पवृ०
॥३८३॥
SSSSSSSSSSSSLI
वज्रोदरो महावेगः सुन्दपसेन्दुमाधवाः । उत्थिताः समरं कत्तुं यमा इव भयङ्कराः ॥ ७५५ ॥ चतुभिः कलापकम् एते युद्धं वितन्वानाः शरैःखड्गैश्च दारुणः । रामस्य शिविरं चक्रु-हतप्रायं क्षणादपि ॥ ७५६ ॥ संहारं भूरिजीवानां निरीक्ष्य सप्तधोटकः । ययावस्तछलादन्य-विषयं करुणापरः ।। ७५७ ॥ प्रातः पद्मभुवा सद्यः प्रेरिता वानरादयः । अढौकन्त दशास्यस्य सैन्यं हन्तुं बलोत्कटाः ॥ ७५८ ।। संग्रामाङ्गणमागतेन भवता चापे समारोपिते, देवाकर्णय येन येन सहसा यद्यत् समासादितम् । कोदण्डेन शराः शरैरपि शिरस्तेनापि भूमण्डले, तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयी ॥ जायमाने तदा युद्धे सैन्ययोरुभयोरपि । लक्ष्मणोऽवग् दशास्यं त्वा-श्रित्येति प्रकटारवम् ॥ ७६० ॥ रे राक्षसाः कथयत व स रावणाख्यो रत्नं रवीन्दुकुलयोरपहृत्य नष्टः ।
त्रैलोक्यदीपकरवित्रिशिखाकराले यो रामनामदहने भविता पतङ्गः ॥ ७६१ ।। अथोत्तस्थुर्दशास्यस्य भटा वीररसोत्कटाः । नटीमिव कराग्रस्थां नर्तयन्तोऽसिवल्लरीम् ॥ ७६२ ।। ध्वानयन्तो दिशः शब्दै-स्तिरयन्तो दिशः शरैः । दारयन्तोऽवनी पद्भ्यां कम्पयन्तोऽचलानपि ॥७६३ ॥ अब्धीनुढेलयन्तश्च भञ्जयतोऽवनीरुहान् । उत्पतन्तः पतन्तश्च भटा जघ्नुः परस्परम् ।। ७६४ ॥ त्रिभिर्विशेषकम् दशास्यस्य तु हुङ्कारैः प्रेरिता यामिनीचराः । बभजुर्वानरान भूरीन् तटवृक्षानिवोर्मयः ।। ७६५ ।।
TOSSESSELSTSSES TESTS
Tur३८३
For Private and Personal Use Only