________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ZZISTESS
w nloadodowww
शत्रुजय कल्पवृ०
३८२॥
252SSESE SESESSES SESZSE
देवसैशाऽऽयसैरखे मिथः शरणैः । दशास्य पदसैन्यानां सङ्ग्रामो दारुणोऽभवत् ॥ ७४२॥ गजस्थो गजगैः सार्द्ध-मश्वस्थस्तुरगस्थितैः । रथस्था रथगैः सार्द्ध युद्धं वितेनिरे भटाः ॥ ७४३ ॥ जायमाने रणे घोरे मिथस्तत्र जवेच्छया । उद्धतेषु भटेष्वेव जयश्रीः संशयेऽपतत् ॥ ७४४ ॥ आदेशं प्राप्य रामस्य युद्धं कुर्वति मारुतौ । दशास्यस्य महायोधौ भग्नौ हस्तप्रहस्तकौ ॥ ७४५ ।। रामादेशादितो युद्धं कुर्वतो नलनीलयोः । सिंहनादा द्विषां वक्षः स्फोटयन्ति दिशोदिशम् ।। ७४६ ।। वाद्यमानेषु तूर्येषु सर्वेषु सङ्गरे तदा । युद्धयन्ति सुभटा बाढं द्वयोश्चम्बोः परस्परम् ॥ ७४७ ।। यतः-भभामुइंगडमरुयढक्का हुंकारसंखपउराई । खरमुहि-हुडुक्कपावय-कंसालयतिव्वसहाई ॥७४८ ।। गयतुरयकेसरीणं सहो वित्थरइ-महिसवसहाणं । मयपक्खीण बहुविहो कायरपुरिसाण भयजणणो ॥ ७४९ ।। यदा नलः कपिहस्तं प्रहस्तं नीलवानरो । निन्यतुर्मरणं पुष्प-वृष्टिस्तदाऽपतत् खतः ॥ ७५० ।। नलवानरनीलैस्तु कपिहस्तप्रहस्तकान् । हतान् श्रुत्वा मुदं रामो लेभे लक्ष्मणसंयुतः ।। ७५१ ॥ हतौ हस्तप्रहस्तौ तु श्रुत्वा दशास्यसैन्यतः । सारणः शुकमारीचौ सिंहव्याघ्रस्वयम्भुवः ॥७५२ ।। बीभत्सोद्दामचन्द्रार्काः कामवामौ स्मरामरौ । क्षेमङ्करो ज्वरो भीमो वीरो बलिंदमो धनः ।। ७५३ ॥ भीमदन्तमहास्कन्धौ महारथप्रजापती । अरिंदमः शतरथः सहस्रांशुमतङ्गजः ॥७५४ ॥
%3Do
३८२॥
STAR
For Private and Personal Use Only