________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
SESGASSE
शत्रुजय
कल्पवृ० ॥३७९॥
बन्धयित्वा दृढं पाशैर्दशास्यं बलगर्वितम् । इहाऽऽनयेऽद्य वा हन्मि तत्रस्थमसिघाततः ॥ ७१३ ।। रामं सबलमायान्तं श्रुत्वा भ्राता बिभीषणः । प्रणम्य रावणं प्राह सुकृती त्वं सहोदर ! ॥ ७१४ ॥ त्वयाऽऽदौ जानकी देवी हृता विमृशनं विना । तन्नैवं विहितं वयं यतः सत्यस्ति जानकी ॥ ७१५ ॥ एकस्यान्यकलत्रस्य हेतवे को विचक्षणः । गमयेदिहलोकं च परलोकं चमूद्यतः ? ॥ ७१६ ।। * यतः-" अप्पउ धूलिहिं मेलिओ सयणदीधओ छार । पगि पगि माथा ढंकणु जिणि जोइ परनारी ॥१॥ * जे परदारह परंमुह ते वुच्चइ नरसिंह । जे परिरंभइ परथीह तह फुसिज्जइ लीह ॥२॥ आदौ हनुमता यद्यद् वनादिभजनं कृतम् । बन्धः सेतोः समुद्रस्य रामेण विहितो दृढम् ॥ ७१७ ॥ तेन दाशरथिद्देष बली सम्प्रति वीक्ष्यते । अतः सीतां सती देहि रामाय सुखहेतवे ॥ ७१८ ॥ रामे स्वनगरोपान्ते समेते रावणो जगौ । भो अङ्गद ! तव स्वामी किं करोति वदाऽधुना ॥७१९॥
बलं प्रदर्शयन् स्वीय-स्वामिनो रामभूपतेः । अङ्गदः प्रोक्तवाने रावणस्य पुरस्तदा ॥ ७२० ।। H विश्रभ्भादुत्तमाङ्ग प्लवगबलपतेः पादयक्षस्य जेतुः कृत्वोत्सङ्गे सलीलं त्वचिकनकमृगस्याङ्गशेषं दधानः ।
बाणं रक्षःकुलघ्नं प्रगुणितमनुजनं नादरात् तीक्ष्णमक्ष्णः काणेनाऽवीक्ष्यमाणस्त्वदनुजवदने दत्तकर्णोऽयमास्ते ॥ सुवेलशैलदुर्गस्थं सुवेलं बलिनं नृपम् । विजित्य तत्र सैन्यं स्व-मात्मसाद्विदधे क्षणात् ॥ ७२१ ॥
TSASSISTSZSZS525252S
-
जESSESS
॥३७९॥
For Private and Personal Use Only