________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥ ३७८॥
IESESESTSESESTSTEISESSTI
खीरदुममि अवासइ वापरयो काक्सो चलियपरावी । वरभेरिसंखसद्दो सिद्धिसिन्धं पसाहिति ॥४॥ विमानैः खेचराश्वेलु-रश्वेभस्यन्दनैः पुनः । भूचरा अचलन् सिंह-नादं कुर्वन्त आदरात् ॥७०६ ॥ दशास्यसुभटौ सेतु-समुद्रौ द्वौ लसद्धलौ । वाचिकूलस्थितौ रामो बबन्ध दृढ़बन्धनैः ॥७०७ ।। यदा सेतोः समुद्रस्य बन्धं दाशरथिय॑धात । तदाऽयमभवल्लोके प्रघोषः सर्वतो ननु ॥७०८॥ यतः-" दृषद्भिः सागरो बद्धो मनुष्यैरिन्द्रजिज्जितः । वानरैर्वेष्टिता लङ्का जीवद्धिः किं न दृश्यते ॥१॥ ये मज्जन्ति निमञ्जयन्ति च परास्ते प्रस्तरा दुस्तरे, वाद्धौं वीर ! तरन्ति वानरभटान् सन्तारयन्तेऽपि च । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः । श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते ॥७०९ ॥ गत्वा सुवेलशैलेऽथ सुवेलं नाम पार्थिवम् । जित्वा दाशरथिलङ्का-समीपे समुपेयिवान् ॥ ७१०॥ लङ्कापावें समायाते काकुत्स्थे सबले तदा । रावणो रणतूर्याणि नादयामास सर्वतः ॥ ७११ ॥
अत्र अङ्गदरावणयोमिथो जल्पनमितिरामः किं कुरुते ? न किंचिदपि च प्राप्तः पयोधेस्तटं, कस्मात् साम्प्रतमेवमेव हि ततो बद्धः किमम्मोनिधिः । क्रीडाभिः किमसौ न वेत्ति पुरतो लकेश्वरो वर्तते, जानात्येव विभीषणोऽस्ति लङ्गापदे स्थापितः ॥१॥ तदा तत्र स्थितं राम प्रणम्य मारुतिर्मुदा । प्रोवाच स्वामिभक्त्या तु लक्ष्मणे शृण्वति स्फुटम् ॥७१२॥
STSITSSTSESESSERTA
a%
॥ ३७८१
For Private and Personal Use Only