________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय
कल्पवृ०
॥३६६॥
ISTSESTSESTSTSESTETSTEST
एवं प्रोक्ते यदा नैव विरराम दशाननः । तदा दशमुखं हन्तु-मधावत विरंजसा ॥ ५७७ ॥ प्राह चेति-रे रे राक्षस ! मा स्म शङ्करवरभ्रान्त्या विभाक्षीनयं, रुष्टो मूढ तदैव यन्मतिमदासीतापहारे हरः । नो चेदिष्टकपालमण्डलभृताप्याखण्डय मुण्डावली । भक्त्या ढौकितमीश्वरेण किमिति प्रत्यर्पितं प्राभृतम् ॥ ५७८ ॥ अत्रोटयन् दशास्याङ्गं जटायुनखरैर्यदा । तदाऽनैपीद्दशास्यस्तं यमसद्म विमञ्जसा ॥५७९ ॥ सीता भीता तदाऽजल्प-दिति भामण्डलं प्रति । हा भामण्डल ! हा भ्रात-र्ममावेहाधमादतः ॥ ५८० ॥ भामण्डलानुगो विद्या-धरो रत्नजटी तदा । सीतां हृतां दशास्येन ज्ञात्वाऽधावत रक्षितुम् ॥ ५८१ ॥ तमापतन्तमालोक्य लकेशः पृष्ठितस्तदा । स्वविद्ययाऽथ तद्विद्यां हृत्वा क्षोण्यामपातयत् ।। ५८२ ।। तत्पत्नीतामनिच्छन्तीं सीतामविघ्नतस्तदा । मुमोच रावणो देव-रमणाभिधकानने ॥ ५८३ ॥ वरीतुं रावणं सीता बोध्यमानाऽङ्गनादिभिः । राम रामेति नो नामा-ऽमुश्चच्चित्तान्मनागपि ॥ ५८४ ॥ इतो रामं समायान्तं निरीक्ष्य लक्ष्मणो जगौ । सीतामेकाकिनी मुक्त्वा त्व भ्रातः ! किमिहागतः १ ॥ ५८५ ॥ रामेणोक्त त्वया सिंह नादोऽकारि प्रयत्नतः । तेन त्वत्सन्निधावागा-मिह साहाय्यकृते तव ॥ ५८६ ॥ लक्ष्मणः प्राह न श्वेडा मया चक्रे सहोदर ! । किन्तु सीतापहारार्थ केनचिद् विहिता च सा ॥ ५८७ ॥ याहि पाहि द्रुतं सीतां त्वमहं सर्वशात्रवान् । हत्वा तव पदोपास्ति कर्तुमेष्यामि शीघ्रतः ॥५८८ ॥
SSESSESESSISEISEISESS
॥३६६
For Private and Personal Use Only