________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
m
Ammmmmmmmmmmmmmmmm
शत्रुञ्जय कल्पवृ०
ummm
॥३६५॥
TESTSTSSTSEITSSELT
अत्राऽभवं जटायुश्च पक्षी दुर्ध्यानयोगतः । ततः कुर्वे जिनेन्द्रोक्तं धर्म मुक्तिसुखप्रदम् ॥ ५७० ।। मत्वेति सेवते राम-लक्ष्मणौ धर्महेतवे । सार्द्ध च कानने ताभ्यां चचाल पक्षिराट् स च ॥ ५७१ ।। जटायुर्जानकीराम-लक्ष्मणानां च सन्निधौ । श्रुत्वा जैनं वृषं भूते-ष्टाष्टम्योः क्षपणं व्यधात् ॥ ५७२ ।। इतोऽम्बरात् समागत्य रावणो धरणीतले । सीतां जहार कुर्वन्तीं विलापमिति स क्ष(ण)पम् ॥ ५७३ ।। हा ! मातहाँ ! पितर्हा हा ! भ्रातर्हा देवराऽधुना । अस्माद् दुराशयाद्रक्ष रक्षेति मां कृपापरा ॥५७४ ।। हा ! धीमतां प्रथम लक्ष्मण ! हाऽऽर्यपुत्र ! हा ! तात हा ? दशरथ क्षितिपालचन्द्रः ।
नीताऽस्मि निर्जनवने पिशिताननेन, त्रायस्व मामिति मुहुविललाप सीता ॥१॥ सा नीयमाना विललाप सीता, श्येनेन चिल्लीवदशाननेन ।
भामण्डल ! भ्रातरहं वनीये हा राम ! हा देवर ! तात मातः ॥२ ।। विभूषणं किं कुचमण्डलानां ? कीदृश्युमा ? चन्द्रमसः कुतो भाः ? ।
सीता कथं रौति दशास्यनीता ? हा राम हा देवर तात मातः ! ॥३॥ सीतावचो निशम्येति जटायुरेत्य तत्र विः । जगौ दुराशयेमा मा हर सीतां सतीं त्वकम् ॥ ५७५ ॥ । एषा सती हुतात्रैव परत्र चासुखप्रदा । भविष्यति तवात्मनोऽतो मुंचेमां नरेश्वर ! ।। ५७६ ॥
255ZSSTSEPSSASSSSSS2
mmmmmmmmmmmm
॥३६५॥
For Private and Personal Use Only