________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ० ॥३६७॥
SRISESES 252525252525SZSE
P रामः पश्चात् समायातो-ऽपश्यन् सीतां प्रियां प्रियाम् । मूर्छामाप्य क्षणाल्लब्ध-चैतन्योऽथारुदद् भृशम् ॥५८९॥
हे सीते ! हे प्रिये ! प्राण-वल्लभे ! त्वमिहाऽऽव्रज । नोत्तरं देहिं किं छन्नं स्थिताऽसि साम्प्रतं प्रिये ! ॥ ५९०॥ इतस्ततो भ्रमन् सीतां सीतामिति गदन् भृशम् । जटायुषं व्रजतप्राण-मपश्यद्रामभूपतिः ॥ ५६१ ॥ श्रुत्योः स्थित्वा नमस्कारान् दायं दायं जटायुषम् । अलभयत् सुरावासं रामो धर्मज्ञशेखरः ॥ ५९२ ॥ * यतः-पंच नमुक्कारे समायाते वच्चंति जस्स दस पाणा । सो जइ न जाई मुक्खं अवस्स वेमाणिओ होइ ॥१॥ * भावनमुक्कारविवज्जियाई जीवेण अकयकरणाई। गहिआणि य मुक्काणि य अणंतसो दवलिंगाणि ॥ २॥॥ * कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । अ{ मन्त्रं समाराध्य तिर्यश्चोऽपि दिवं गताः ॥५९३॥ त्रिशिरोदूषणखरान् भूरिभिवैरिभिः सह । हत्वा विराधसखिना युक्तोऽचाली स लक्ष्मणः ॥ ५९४ ॥ आगतो लक्ष्मणः पश्चा-नत्वा ज्येष्ठं सहोदरम् । द्विषां विजयवृत्तान्त-मगदद् भ्रातुरातः ॥ ५९५ ॥ अजल्पन्तं तदा रामं निःप्रियं वीक्ष्य लक्ष्मणः । पप्रच्छ सोदर ! क्वास्ति जानकी साम्प्रतं वद ! ॥ ५९६ ॥ रामः सगद्गदं प्राह ततो यावदिहागमम् । तावत् सीता हृता केन-चित् खगेनैत्य पापिना ॥ ५९७ ।। जटायुषं हतं कश्चित् श्वसन्तं वीक्ष्य वेगतः । नमस्कारप्रदानेना-नैषं स्वर्गमहं तदा ॥ ५९८ ॥ आचष्ट लक्ष्मणः सिंह-नादो येन कृतस्तदा । तेनैव जानकी भ्रात हृता सम्भाव्यते रहः ॥ ५९९ ॥
SSTSSTSSSSSS25AITSESES
॥३६७॥
For Private and Personal Use Only