________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
शत्रुजय कल्पवृ०
TSESEZETSSES25ZTSSESE
एकदा जननीपार्वाद् विमाने याति वेगतः । अर्भकोऽयं पतन शैलं देहभारादचूर्णयत् ॥५१९ ॥ चूर्णिता दृषदो भग्नां-स्तरून भूरीन सुतं पुनः । अक्षताङ्गं निरीक्ष्याऽम्बा स्वौकोऽनैषीत् प्रमोदतः ।। ५२० ॥ एवंविधोऽयं बलवान् हनुमान् विद्यतेऽद्भुतः । क्रियते सेवकवायं तदा वयं भवेन्ननु ।। ५२१ ॥ रावणेन ततश्चक्रे हनुमान् सेवको निजः । रावणस्याऽऽदरात् सेवां चकार च दिवानिशम् ॥५२२॥ तत्र सत्यवती खेटनन्दिनीं जितनिर्जरीम् । अनङ्गसुभगाश्वान्या उपयेमे दशाननः ॥ ५२३ ॥ विद्याभृतो विभाकान्त-रवीन्द्वारबुधान् गुरुम् । शुक्रशनिश्वरान् राहु-केतुसज्ञान् ग्रहानव ॥ ५२४ ॥ अनङ्ग सेनभूकान्त-वीर्यवर्यधराधवान् । वश्यऽकार्षीदशास्योऽथ स्वकीयभुजलीलया ॥ ५२५ ॥ युग्मम् ॥ दशानने गृहे सर्वे एते कर्मकरा इव । कार्याणि रावणोक्तानि कुर्वते स्म दिवानिशम् ॥५२६ ॥ त्रिखण्डां मेदिनी सर्वां साधयित्वा दशाननः । समेत्य स्वपुरे राज्यं चकार न्यायवर्त्मना ॥५२७ ॥ षोडशाथ सहस्राणि भूपा मुकुटबद्धकाः । सेवन्ते रावणं भूपं समेत्य स्वपुराद् भृशम् ॥ ५२८ ॥ त्रिखण्डेशो रसक्षोणी मितसहस्रभूधवैः । सेव्यमानो व्यधाद् राज्यं दशास्यः शक्रवत्तदा ॥५२९॥ कालादिनन्दना लक्ष-प्रमिताः प्रबलौजसः । रावणस्याभवन् वर्याः पृथक पृथक् प्रियाभवाः ॥५३० ।। एकदा तीर्थमाहात्म्यं श्रुत्वा दशाननो नृपः। [महत सङ्घयुतः ] ग्रामे ग्रामे महं कुर्वन् तीर्थे शत्रञ्जये ययौ ॥ ५३१ ॥
HSSESSESSSSSSTERSTER
॥३६१.
For Private and Personal Use Only