________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शत्रुञ्जय कल्पवृ०
॥३६०॥
2295252525252SESSISEST25
ततस्तौ द्वीपमारूढौ स्वस्वविद्यासवपिणौ । अभूतां भीतिदौ नृणां स्वर्गिणामपि तत्क्षणात् ॥५०६ ॥ # संग्रामं रावणः कुर्वन् बद्भवेन्द्रं दृढबन्धनैः । निजाज्ञां ग्राहयामासा-नुगानिन्द्रस्य लीलया ॥५०७॥
जयढक्कां दशास्योऽथ बादयन् सर्वतस्तदा । लङ्कामभ्येत्य कारायां चिक्षेपेन्द्र शकुन्तवत् ॥५०८ ॥ सहस्रारः समेत्याऽथ भक्तथा नत्वा दशाननम् । जगौ कृत्वा कृपां मुश्च मत्पुत्रं गुप्तिवेश्मतः ॥ ५०९॥ मोक्ष्येऽहं गुप्तितश्चैनं तदा राज्यं ददामि च । अङ्गीकृत्य दशास्योक्त-मिन्द्रः स्वपुरमीयिवान् ॥ ५१०॥ लङ्कां प्रमार्जयन् शश्व-दिन्द्रो लज्जापरोऽन्यदा । राज्ये स्वं नन्दनं न्यस्य जग्राह संयमश्रियम् ॥५११॥ तप्त्वा तपश्चिरं क्षिप्त्वा काष्टकमशेषतः । इन्द्रर्षिः केवलज्ञानं प्राप्य प्राबोधयज् जनान् ॥५१२ ।। बोधयित्वा जनान् भूरीन् गत्वा शत्रुञ्जयाचले । आयुःक्षयाद्ययौ मुक्ति-मिन्द्रः साधुसहस्रयुग् ॥५१३ ॥ परस्त्रीसङ्गमान् मृत्यु विदन् दशाननस्तदा । इच्छन्तीमपि वामाक्षी न्यषेधयन् निरन्तरम् ॥५१४ ॥ वरुणस्याऽऽहवे वीक्ष्य हनुमदलमुल्वणम् । हृष्टो दशाननोऽप्राक्षीत् कस्यायं नन्दनः खलु ॥५१५ ॥ मन्त्रीश्वरोऽवगादित्य-पुरे प्रल्हादभूपतेः । पवनञ्जयपुत्रोऽभूत् पत्नीकेतुमतीभवः ॥ ५१६॥ माहेन्द्रनगराधीश-माहेन्द्रनृपनन्दिनीम् । अञ्जनासुन्दरी पाणि-ग्रहादङ्गीचकार सः ॥५१७ ॥ पवनब्जयभूभुग्भू-रजनासुन्दरीभवः । हनुमानाभिधः सूनु-रयं प्रबलविक्रमः ॥ ५१८ ।।
HLEELLSESESESESESESI
||३६०.
For Private and Personal Use Only