________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
गा३५८॥
* पृथिव्यामप्यहं पार्थ ! वाचावी जलेऽप्यहम् । वनस्पतिगतश्चाई सर्वभूतगतोऽप्यहम् ॥५॥ * यो मां सर्वगतं ज्ञात्वा नहि हिंस्यात् कदाचन । तस्याहं न प्रणस्यामि स च मे न प्रणस्यते ॥६॥ * मार्यमाणस्य हेमाद्रिं राज्यं वापि प्रयच्छतु । तदनिष्टं परित्यज्य जीवो जीवितमिच्छति ॥७॥ * यूपं कृत्वा पशून् छित्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे नरके केन गम्यते ? ॥ ४८६ ॥5 इत्यादि बहुभिः सूक्तैः क्रतुं हिंसामयं तदा । निषिध्य रावणो विप्रा-नग्राहयद् दयामयम् ॥ ४८७॥ * यतः-आत्मा नदी संयमतोयपूर्णा सत्यावहा शीलतटा दयोर्मिः क .
तत्राभिषेकं कुरु पाण्डुपुत्र ! न बारिणा शुद्धयति चान्तरात्मा ।। ४८८ ॥ ततस्ते वाडवा जैन-धर्म कुर्वन्त आदरात् । तीर्थे शत्रुञ्जये गत्वा तपस्तेपुश्चिरं मुदा ॥ ४८९ ।। क्रमात् कर्मक्षयाच्छत्रु-जये तीर्थे शिवं ययुः । तत्र चक्रे दशास्येन विहारं तापसाभिधम् ॥ ४९० ॥ दुर्लचन्यनगरे कुम्भ-कर्णमुख्यान् सहोदरान् । अनेकभृत्यसंयुक्तान् कुम्भ्यश्वबलराजितान् ॥ ४९१ ॥ रावणोऽप्रेषयज् जेतु-मराति नलकूबरम् । शोभने वासरे वर्य-शकुनेषु बहुवथ ॥ ४९२ ।। स्वपुर्या परितो वप्रं योजनानां शतैर्युतम् । आशाल्या विद्यया तत्र बलीयानरिभूपतिः ।। ४९३ ।। तत्र पुर्यन्तिकं कुम्भ-कर्णाद्यास्ते महीभुजः । न शेकुब्धीक्षितुं वनं ज्वलज्ज्वालाभिवेष्टितम् ॥ ४९४ ॥
SESISESTATIST
-
PT352135ISZESZ
।३५८॥
For Private and Personal Use Only