________________
Shri Mahavir Jain Aradhana Kendra
www.kobaurtm.org
Acharya Shri Kailassagarsun Gyanmandie
शत्रुजय कल्पवृ०
॥३५७॥
PSSPSSESSESTSESESETS.
सहस्रांशुरपि प्रौढ-प्राभृतं दशमौलये । दत्त्वा क्षान्त्वा जगौ भृत्य-स्तवाऽतोऽहं च किङ्करः ॥ ४७७ ॥ स्वराज्ये स्वसुतं न्यस्य सहस्रकिरणो नृपः । भीमः पित्रन्तिके दीक्षां जग्राहाऽनघमानसः ॥ ४७८ ॥ ततो भीमेन संयुक्तः सहस्रांशुर्यतिः सदा । तपःपरो ययौ शत्रु-जये तीर्थे शिवप्रदे ॥ ४७९ ॥ तत्र भीमसहस्रांशू कुर्वाणौ सन्ततं तपः । लभेते केवलज्ञानं लोकालोकप्रकाशकम् ॥ ४८० ॥ दशाननस्ततो गच्छन् रेवाकूले बहून् पशून् । तुरगान् पक्षिणो दीनान् वीक्ष्येति सेवकान् जगौ ॥ ४८१ ।। किमेष वाल्यते वति-र्वीक्ष्यन्ते पशवोऽत्र किम् । भृत्या जगुर्द्विजैर्यज्ञः क्रियमाणोऽस्ति साम्प्रतम् ॥ ४८२ ॥ क्षिप्स्यन्ते पशवो ह्येते वह्नौ धर्माधिया द्विजैः । ततो दशाननस्तत्र यज्ञे गत्वा जगावदः ॥ ४८३ ।। एते किं पशवो वहौ क्षिप्यन्ते धर्महेतवे ? । भवद्भिरविचार -नरकोा च यास्यते ॥ ४८४ ॥ जीवानां हिंसयाऽमुत्र परत्राऽसुखसन्ततिः । श्वभ्रादौ लभ्यते नूनं प्राणिभिर्नात्र संशयः ॥४८५॥ * यतः-" सर्वे वेदा न तत् कुर्युः सर्वे यज्ञाश्च भारत !। सर्वे तीर्थाभिषेकाश्च यत् कुर्यात् प्राणिनां दया ॥१॥॥ H* वरमेकस्य सत्त्वस्य प्रदत्ताऽभयदक्षिणा । न तु विप्रसहस्रेभ्यो गोसहस्रमलङ्कृतम् ॥ २॥5 4 * महतामपि दानानां कालेन क्षीयते फलम् । भीताभयप्रदानस्य क्षय एव न विद्यते ॥३॥
* यावन्ति रोमकूपाणि पशुगात्रेषु भारत ! । तावद्वर्षसहस्राणि पच्यन्ते पशुघातकाः ॥ ४॥क
ITIESSTISSUESES52552:55
1B५७।
For Private and Personal Use Only