________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
शत्रष्जय
कल्पवृ०
॥३५०॥
2525STSCITESTSTYCSESZSZI
किष्किन्धायामथादित्य-रा सन्यासितः । बलिये सूनवे राज्यं ददौ सूत्तपपूर्वकम् ॥३९१ ॥ युवराजपदं सोऽथ सुग्रीवाय वितीर्णवान् । अष्टाह्निकां व्यधात् सार्वा-वासेष्वादित्यभूपति ॥ ३९२ ।। भूरिभिर्मेदिनीनाथैः सार्द्ध शोभनयासरे । श्रीसुनतगुरोः पार्श्वे जग्राहाऽऽदित्यभूपतिः ( सर्वसंयमम् ) ॥ ३९३ ॥ अथ सूर्पणखां हत्वा जित्वा चन्द्रोदरं नृपम् । आदित्यरजसः मूर्नु बिललकां खरोऽग्रहीत् ॥३९४ ॥ हृतां सूर्पणखां ज्ञात्वा खरेणाथ दशाननः । रुष्टो हन्तुं चलन् मन्दो-दर्या पत्न्याऽथ वारितः ।। ३९५॥ असावपि खरो विद्या-धरो विद्यावलोऽस्ति च । अतोऽस्मै दीयते सूर्पणखा चेच्च तदा वरम् ॥३९६ ।। आदित्यरजसः पुत्रं चन्द्रोदराऽभिधं वरम् । बलिष्ठं हतवान् युद्धे खरोऽस्थात्तत्पुरे विले ॥ ३९७ ।। कदाचित् भवता युद्धे संग्रामे निहतः खरः । तदा ते भगिनी भतहीना नूनं भविष्यति ॥३९८ ॥ ततः सूर्पणखां जामि रावणस्य सदुस्सवम् । उपयेमे खरो विद्याधरः शोभनवासरे ॥ ३९९ ॥ गतक्रोधो दशास्योऽथ स्वजामिरमणं खरम् । सदूषणं न्यधाच्चन्द्रो-दरराज्ये सदुत्सवम् ॥ ४०० ।। मृते चन्द्रोदरे भार्या-ऽनुराधा कानने स्थिता । विराधाख्यं सुतं चारु गुणगेहमजीजनत् ॥ ४०१॥ किष्किन्धायां बलिष्ठं तु बालिनं जितशात्रवम् । श्रुत्वा दशाननो दूत-पार्थादाकारयद् ध्रुवम् ॥ ४०२ ।। बाली प्राह विनाऽर्हन्तं नापरं निर्जरं नृपम् । नमाम्यहं क्वचित् प्राणात्ययेऽपि रावणं प्रति ॥४०३ ।।
SESTISSOSTSZ570SPSSPS
THU३५०॥
For Private and Personal Use Only