________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
SZSG2525252525
wwwmaanana
शत्रुजया कल्पवृ० ॥३४९॥
वयं वरं दशास्य तु ज्ञात्वा विद्याधरो मयः । मन्दोदरी सुतां तस्मै ददौ मूत्सवपूर्वकम् ॥ ३७८ ॥ स(म)होदरस्य भूपस्य तडिन्मालां सुतां वराम् । विद्युल्लतामिवाम्भोदः कुम्भकर्ण उपायत ॥३७९ ॥ वीरविद्याभृतः पुत्रीं नामतः पङ्कजश्रियम् । पर्यणेपीत सुहर्षेण पित्रादेशाद् विभीषणः ॥ ३८० ॥ आदौ शक्रजितं मेघ-नादं च नन्दनावुभौ । अजीजनत् शुभे लग्ने राज्ञी मन्दोदरी क्रमात् ॥ ३८१ ॥ ज्ञात्वा वैश्रमणं शक्र-भृत्य कस्यचिदाननात् । गत्वा दशाननस्तेन सार्द्ध युद्धं व्यधाद् भृशम् ॥३८२ ॥ बहुष्वहस्सु जातेषु विज्ञाय स्वं जितं रणे । नष्टो वैश्रमणो जीव-मेव लात्वाऽतिदूरतः ॥ ३८३ ॥ विज्ञायाऽसार संसारं तदा वैश्रमणो हृदि । लात्वा दीक्षां ययौ मुक्ति सर्वकर्मव्रजक्षयात् ॥३८४ ।। जित्वा वैश्रमणं तस्य लात्वा लक्ष्मी समां द्रुतम् । रावणः पुष्पकारूढः स्वपुरी समुपेयिवान् ॥ ३८५ ॥ शक्रभृत्यं च तं जित्वा दशास्यो मुदिताशयः । आदित्यरजसेऽदाच्च किष्किन्धां सुहृदे पुरीम् ॥ ३८६ ॥ नवं ऋक्षपुरं कृत्वा स ऋक्षरजसे ददौ । आदित्यरजसश्चासीद् बाली नामा सुतो बली ॥ ३८७ ।। द्वितीयोऽजनि सुग्रीवः पुत्रो रुचिरविक्रमः । कनीयसी कनी तस्य सुप्रभेत्यभवत् क्रमात् ॥ ३८८ ॥ ऋक्षरजःप्रिया वर्या हरिकान्ता शुभेऽहनि । नलनीलाभिधौ पुत्रा-वसूत वरलक्षणौ ॥ ३८९ ।। पित्राऽथ विबुधोपान्ते नलनीलौ स्वनन्दनौ । पाठितौ विदुरौ जातौ सर्वशास्त्रेषु संततम् ॥ ३९० ।।
ISTSSESSISSESSTSZETISS2
ESS
%3D
॥३४९॥
For Private and Personal Use Only