________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥३४६॥
SSESSESRISESESEPSISESSI
सर-सत्तिवाण-मोग्गर-फलिह-सिला सेल्लाउहसर । खिप्पंतेसु समर्थ समथमगण सहसा ॥२॥" ततो लङ्कापुरीस्थस्य सुमालिमेदिनीपतेः । अभूद् रत्नश्रवाः पुत्रो वर्यलक्षणलक्षितः ॥ ३४३ ॥ सुमाली स्वसुतं राज्ये न्यस्य पार्श्वे गुरोर्मुदा । प्रव्रज्य निखिला साता-सातक्षयाद् ययौ शिवम् ॥३४४ ।। भूपस्य रत्नश्रवसोऽभूवन् विद्यावशा वरा । प्रेयसी कैकसी चासीत् शीलादिगुणशालिनी ।। ३४५ ॥ कैकसी सूर्यचन्द्रादि-स्वप्नसूचितमङ्गजम् । अस्त शोभने घने लसल्लक्षणलक्षितम् ॥३४६ ॥ सूनोरारोपिते कण्ठे हारे नवमणीमये । प्रतिबिम्बित आस्ये तु मुखान्यासँस्तदा दश ॥ ३४७॥ "रयणकिरणेसु एत्तो मुहाई नव नियवयणसरिसाइ । हारे दिवाइ फुडं तेण कयं दहमुहो नामं ॥१॥" ततो दशास्य इत्यासी-तस्य नाम जनेऽखिले । वर्द्धमानः क्रमान्माता-पित्रोर्मोदकरोऽजनि ॥ ३४८ ॥ कैकसी सुषुवे कुम्भकर्ण पुत्रं च सुन्दरम् । ततः सूर्पणखां पुत्री रूपनिर्जितनिर्जरीम् ॥ ३४९ ॥ ततो बिभीषणं पुत्रं चञ्चत्स्वप्नाभिसूचितम् । कैकसी सुखतोऽसूत शोभने वासरे स्फुटम् ॥ ३५० ॥ वर्द्धमानाः क्रमादेते रावणाद्याः शुभोदयात् । बभूवू रूपलावण्य-लक्ष्मीकलितविग्रहाः ॥३५१ ॥ मातापित्रोर्मुखात् स्वस्य द्विषां पराभवं बहु । भीमारण्ये त्रयोऽप्येयू रावणाद्याः सहोदराः ॥३५२ ।। तत्र पूजोपहारायः पुष्पैस्तीव्रतपःकृतेः । रोहिण्याद्यां वरां विद्या-मसाधयश्च ते तदा ॥३५३ ॥
252SICPLESSZIS25PS2SS
३४६॥
For Private and Personal Use Only