________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
25252S
Ramananemamanan
शत्रुञ्जय
कल्पवृ०
॥१८॥
SESTSESTSEASTITSSTE
त्वं चेदनशनं लाहि साम्प्रतं कीरभावतः । देवलोके सुरस्फार-रूपधारी भविष्यसि ॥१०॥ (युग्मम् ) गृहीत्वाऽनशनं कीर-स्तयोर्देव्योरभूत पतिः । च्युत्वा देव्यौ ततो मर्त्य-भवं चालभतां क्रमात् ॥ ११ ॥ ततस्तत्र सुरावासे कीरस्य वल्लभे वरे । अभूतां पूर्वपुण्येन हृष्टोऽभूत्स सुरस्तदा ।। १२ ।। हंसी देवी च्युता स्वर्गात् क्षितिप्रतिष्ठपत्तने । मृगध्वजोऽभवद् भूपो रूपलावण्यसुन्दरः ॥ १३ ॥ सारसी स्वर्गात् च्युत्वा गागलेश्च तपस्विनः । पुत्री कमलमालेति बभूवाहतधर्मकृत ॥ १४ ॥ जितारिनिर्जरोऽन्येद्युः पप्रच्छ ज्ञानिसन्निधौ । भविष्यत्यहतो धर्म-प्राप्ति न वा निगद्यताम् ॥ १५ ॥ केवल्याहाभवद् हंसी मृगध्वजमहीपतिः । क्षितिप्रतिष्ठनगरे मरुत्पुरसहोदरे ।। १६ ॥ गागलेस्तापसस्यासीत् सारस्या असुमान् पुनः । नाम्मा कमलमालेति रूपनिर्जितनिर्जरी ॥ १७ ॥ मृगध्वजस्य कमल-मालायाः पाणिपीडने । जाते त्वं चैतयोः पुत्रो भविष्यसि शुकामर ! ॥ १८ ।। तदा ते सर्वविद्धर्म-प्राप्तिर्भवति निश्चितम् । श्रुत्वैतत् स सुरः कीररूपमृदभवत् क्षणात् ॥ १९॥ क्षितिप्रतिष्ठनगरे यावद्यातः शुकामरः । तावद् भूपः पुरोधाने चूतस्याधःस्थितो मुदा ॥२०॥ क्षणार्द्धया (स्वाः) प्रिया दृष्ट्वा सर्वा दध्याविदं हृदि । ममान्तःपुरनारीणां तुल्या नारी न विद्यते ॥२१॥ तदा माकन्दशाखायां स्थितः सुरः शुकः स च । जगौ गर्यो न कर्त्तव्य उत्तमर्मानवैरिति ॥२२॥
2525252525252525252525
For Private and Personal Use Only