________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
मुनिसुन्दरसूरीशस्तपोगच्छखभास्वतः । शुभशीलेन शिष्येण वृत्तिरेपा विनिर्मिता ॥ ५७ ॥
शत्रुजय कल्पवृ०
2592SSZS2PSS225252525
॥श्री शत्रुञ्जयनामोपरि शुकभूपकथा ॥ शुकभूमिपतिः शत्रु-जयेत्याह्वां यथा ददौ । तथा सङ्क्षपतोऽत्रैव कथ्यते मयका किल ॥१॥ श्रीभदिलपुरे वर्षे जितारेर्मेदिनीपतेः । हंसी च सारसी पत्न्या वभूतां वरमानसे ॥२॥ स्वभावात् सरला हंसी सारसी कुटिलाशया । नरोत्पत्तिभवं कर्म हंसी बबन्ध सङ्घपात ॥३॥ शत्रुञ्जये नृपो यात्रां कृत्वाऽभ्येत्य निजालये । प्रासादमहतः प्रौढं कारयामास सुन्दरम् ॥ ४॥ कृतपुण्योऽपि भूपालोऽन्यदा मृत्युक्षणे किल । प्रासाद शिखरे कीर-मुपविष्टं व्यलोकत ॥ ५ ॥ शुभध्यानान्नृपो मृत्वा बने चन्द्रवराभिधे । शुकोऽजनि यतः प्रान्ते या मतिः सा गतिर्भवेत् ॥ ६ ॥ भत मरणकर्त्तव्यं कृत्वा ते वल्लभे वरे । व्रतं जगृहतुस्तीवं तपश्च चक्रतुः सदा ॥ ७॥ मृत्वा द्वे अपि ते देव-लोके गत्वाऽवधेर्बलात् । ज्ञात्वा निजं पति कीरं तत्रैत्येत्यूचतुः स्फुटम् ॥ ८ ॥ जितारिस्त्वमभूद्राजा भद्दिलाढे पुरे वरे । इत्यादि चरितं मृत्यु-प्रान्ते कीरपुरस्तदा ॥९॥
25SISESESTAS22SSESSES2S
For Private and Personal Use Only