________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
m
शत्रुजय कल्पवृ०
॥३३६॥
325252525252555ESISTAS
कैकेयी कपटाऽभ्येत्य तदा पत्युः पुरो जगौ । तव पार्वे वरौ द्वौ तु विद्यते मम सम्प्रति ॥२४॥ रणे पङ्के रथो मग्नो मयाऽकर्पि यदा पते ! । तदोक्तं भवता राज्यं तव पुत्राय दास्यते ॥२४१॥ रोगे समागते प्रोक्तं भवतेति वरो वरः । याच्यतां तु मयेत्युक्तं याचिष्येऽवसरे खलु ॥ २४२॥ यतः-"प्रायः पुमांसः सरलस्वभावा, रण्डास्तु कौटिल्यकलाकरण्डाः ।
ताताद्ययाचे कथमन्यथाऽस्मिन्, काले वरं कैकेयसम्भवेयम् ॥१॥" राज्यमेकवरेणैव देहि मे सूनवेऽधुना । द्वितीयवरतो रामो वने द्वादश हायनान् ॥ २४३ ॥ तिष्ठतात् सीतया युक्त-स्ततो दशरथो जगौ । प्रतिज्ञा मयका चक्रे या सा तु पूरयिष्यते ॥ २४४ ।। युग्मम् ।। पत्न्यास्तादृग् वचः श्रुत्वा बज्रपातसहोदरम् । तस्थौ दशरथो मौनी यावद्रामो जगौ तदा ॥ २४५॥ तात ! राज्यमिदं दत्त्वा भरतायैव सूनवे । आशा सम्पूर्यतां मातुः कैकेय्या मम साम्प्रतम् ॥२४६ ॥ राज्येच्छा विद्यते मे न पितस्तुव पदाम्बुजे । सेवावाञ्छा समस्त्येव भरतोऽतोऽस्तु भूपतिः ॥ २४७ ॥ ततो भरतपुत्राय दत्त्वा राज्यं सदुत्सवम् । यावद्दशरथोऽचाली-लातुं संयममात्मसात् ॥ २४८ ॥ तावद्रामः पितुः पादौ प्रणम्येति जगौ मुदा । वनवासाय मे देहि त्वमादेशं प्रसद्य हि ॥ २४९ ॥ कृते दशरथेनैवं मौने दध्यौ तु राघवः । मानितं वनवासाय तातेन मम साम्प्रतम् ॥२५० ॥
SPSPSESTSEASESTSESGPS
o mmmmmmmmmmmm
For Private and Personal Use Only