________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
ICSESESTSESTZS225PSSPSE
भूपो दशरथः पुष्पैः प्रवरैदिवसोदये । प्रपूज्योत्तताराद्रेः सिद्धात् सङ्घसमन्वितः ॥२२७ ॥ जिमयित्वाऽखिलं सङ्ग परिधाप्याम्बरैर्वरः । भूपश्चलन् ययौ चन्द्र-प्रभाभिधे च पत्तने ॥ २२८ ॥ तत्र चन्द्रप्रभं देवं पूजयित्वाऽतिविस्तरात् । प्रासादं कारयामास चन्द्रप्रभजिनेशितुः ॥ २२९ ॥ सीता सतीशिरोरत्नं प्रासादमपरं पुनः । कारयित्वा तदा चन्द्रप्रभविम्बं न्यवीविशत् ॥ २३०॥ ततो रैवतके नेमि नत्वा चाभ्यय॑ भूधवः । तत् सद्म कारयामास शम्भुपर्वतसोदरम् ॥ २३१ ॥ कैकेयी वरटक्ष्माभ्रे गत्वा नत्वा जिनेश्वरम् । प्रासादमादिदेवस्य कारयामास रैव्ययात् । २३२ ॥ रामेण वरटे शैले कारिते शान्तिमन्दिरे । न्यवीविशन्जिनं शान्ति महामहःपुरस्सरम् ।। २३३।। ढङ्कशैलान्तिके ढङ्क-पुर्या श्रीऋषभप्रभोः । बिम्बं न्यवीविशद्रामः प्रासादे कारिते स्वयम् ॥ २३४ ॥ वल्लभ्यां पुरि सर्वज्ञ-गेहे निष्पादिते स्वयम् । सुप्रभा शान्तिबिम्बं तु न्यवी विशद्वरोत्सवम् ॥२३५ ॥ काम्पील्ये नगरे राम ऋषभस्य जिनेशितुः । लक्ष्मणो वामनस्थल्यां प्रासादं च वरं व्यधात् ॥ २३६ ।। रामादिभिः सुतैर्मण्ड-लीकै मण्डलादिभिः । शत्रञ्जयादितीर्थेषु प्रासादाः कारिता वराः ॥ २३७॥ एवं दशरथो यात्रां कृत्वा तीर्थेषु भूरिषु । समहं स्वपुरीमागात श्रीसङ्घ विससर्ज च ॥ २३८ ॥ भवोद्विग्नोऽन्यदा भूपो रामादिनन्दनान् समान् । आकार्य राज्यमात्मीयं रामाय ददते यदा ॥ २३९ ॥
GLASSC525525SESSPSSTE
mommmmmmmmmmmmmwwwmomso
॥३३५:1
For Private and Personal Use Only