________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुज्जय
कल्पवृ० ॥३३१॥
SZITSEJSZSZS5252525255257
जो पुण मंसनिवितिं कुणइ नरो सीलदाणरहिओवि । सोविअ सग्गाइगमणं पावइ नत्थेत्थ संदेहो ॥ ४॥"
श्रुत्वेति कुण्डलः श्राद्ध-धर्म जीवदयामयम् । अङ्गीचक्रे गुरूपान्ते चञ्चद्विनयपूर्वकम् ॥१८९ ।। व ततो नत्वा यति गच्छन् श्राद्धधर्म जिनोदितम् । प्रपालयन् कुण्डलो याम्य-दिशम्प्रत्यचलत् क्रमात् ॥ १९० ॥
अटव्यां सलिलाभावात् तृषाऽऽक्रान्तोऽथ कुण्डलः । दध्यौ जीव ! त्वया भूरि पीतं वारि पुरा ध्रुवम् ॥ १९१ ॥ यत:-"जंणेण जलं पीयं धम्मायवजगडिएण तंपि इहं । सव्वेसु वि अगड-तलाय-नई-समुद्देसु नवि हुज्जा ॥१॥ नहदंतमंसकेसट्ठिएसु जीवेण विप्पमुक्केसु । तेसुवि हविज्ज केलास-मेरुगिरिसंनिभा कूडा ॥२॥ हिमवंत-मलय-मन्दर-दीवोदहिधरणिसरिसरासीओ। अहिअयरो आहारो छुहिएणाहारिओ हुज्जा ॥३॥ पीयं थणयच्छीरं सागरसलिलाउ हुज्ज बहुअयरं संसारम्मि अणंते माऊणं अन्नमन्नाणं ॥ ४ ॥ पत्ता य कामभोगा कालमणंत इहं स उवभोगा । अप्पुव्वं पिव मन्नइ तहवि य जीवो मणे सुक्खं ॥५॥ तदा ध्यायन्निति प्राण-त्यागात् कुण्डलमण्डितः । जनकक्ष्मापगेहिन्याः कुक्षौ च समवातरत् ॥ १९२ ॥ तदा तप्त्वा तपस्तीत्र-तरं वेगवती सती । गत्वा स्वर्गे ततश्च्युत्वा पत्न्या जनकभूपतेः ॥ १९३ ।। गर्भे समागता पूर्व-वर्यपुण्योदयान्ननु । ततो जनकगेहिन्या गर्भे युग्मं विवर्द्धते ॥ १९४ ॥ तदा मृत्वा सुरो भूत्वा पिङ्गलः श्रमणो ध्रुवम् । वैरं ज्ञात्वा रुषाद् गर्भ तौ स्तभ्नाति स्म निर्दयम् ॥ १९५॥
2SSISESESTASSSTSESL52
For Private and Personal Use Only