________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
शत्रुञ्जय कल्पवृ०
॥ ३३०॥
SEITSISESTSESTSE25TITSSTE
तसोऽन्यत्र पुरे दीनः पिङ्गलः साधुसन्निधौ । धर्म श्रुत्वा ललौ दीक्षां भवासातछिदे तदा ॥ १७९ ॥ तपस्तीनं वितन्वानः पिङ्गलपिहिमागमे । सहते शीतमुष्णं च तापमन्यत्र यत्नवान् ॥१८॥ दुर्गेऽतिविषमे तिष्ठन् कुण्डलो दुर्दमो बली । अमरणमहीशस्य देशं भनक्ति सन्ततम् ॥१८१॥ देशं विनाशितं तेन बहु श्रुत्वा महीपतिः । यियासुरभवद्याव-तं हन्तुं कुण्डलं रिपुम् ॥१८२॥ तावदादेशमादाय बलचन्द्रो महाभटः । प्रणम्य भूपति हन्तुं तं शत्रमचलत् पुरात् ॥ १८३॥ बलचन्द्रइछलं कृत्वा गत्वा तत्र रणाङ्गणे । बद्ध्वाथ कुण्डलं दुर्ग तमात्मीयं व्यधात् द्रुतम् ॥ १८४ ॥ आगत्य स्वपुरे स्वामि-पार्वे तं बलिनं रिपुम् । मुक्त्वाऽनंसीधदा बल-चन्द्रो हृष्टो नृपस्तदा ॥१८५॥ तुष्टो नृपो ददौ तस्मै भृत्याय कमलां बहु । कुण्डलं ताडयित्वाथ चिक्षेप गुप्तिवेश्मनि ॥ १८६॥ सूनोर्जन्मनि भूपेन रथकुण्डलमण्डितः । मुक्तोऽन्यबन्दिसंयुक्तो हर्षपूरितचेतसा ॥ १८७ ।। गच्छन् वनेऽन्यदाऽन्यत्र रथकुण्डलमण्डितः । साधुं दृष्ट्वाऽनमद्धर्म श्रुत्वा च जिनजल्पितम् ॥ १८८ ॥ तथाहि-" हिंसा पुण जीववहो सोवि अ मंसस्स कारणं होइ । तम्हा कुण जीवदयं सासयसुक्खकए सययं ॥१॥ [आ] संसारत्था जीवा आसि चिय बंधवा परभवेसु । खायंतएणं मंसं ते सव्वे भक्खिआ नवरम् ॥२॥ जे इत्थ जीववहया महुमंससुराइलोलुया पावा । ते हु मुआ परलोए हवंति नरएसु नेरइआ ॥३॥
2525252525TSSTSTILSTSEE
1३३०॥
For Private and Personal Use Only