________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
JLS
शत्रुञ्जय
SSESSISSESSESS2
कल्पवृक
॥ ३२९॥
252525252TSISSIPS
सचित्तानां परित्यागः एकैव विकृतिः पुनः । गृहीतव्या मया नूनं भवत्वेवमभिग्रहः ॥१६७ ॥ ततो भामण्डलोऽवादीद् भगवन् ! किं मनो मम । सीतां दृष्ट्वा विकसति वाश्चिन्द्रोदयं यथा ? ॥१६८ ॥ ज्ञानी प्राह पुरे चक्रे चक्रध्वजमहीपतेः । मनःसुन्दर्यभूत पत्नी पुत्री च रतिसुन्दरी ॥१६९ ॥ गेहगर्भे बुधोपान्ते पठन्ती रतिसुन्दरी । पुरोहितसुतो दृष्ट्वा राग्यभून्मधुपिङ्गलः ॥ १७० ॥ यतः-' पढम चिअ आलावो आलावाओ रइ रइओ वीसंभो । वीसंभाओ पणओ पणयाओ वुड्ढए पेम्मं ॥१॥" तां कन्यां पिङ्गलो हत्वा विदर्भनगरे बरे । गत्वा कस्मिन् गृहे स्थित्वा भोगी जातो तया समम् ॥ १७१ ॥ क्रमान्निष्ठितलक्ष्मीकः पिङ्गलस्तृणदारुभिः । विक्रीतैनिजनिहिं कुरुते गहिनीयुतः ॥ १७२ ॥ बहिर्वनेऽन्यदा पत्नीं पिङ्गलस्य मनोहराम् । रथकुण्डल आलोक्य हतुकामोऽभवद् हृदि ॥१७३ ॥ दूतीमुखात् प्रलोभ्याथ कुण्डलो मदनातुरः । आनीय तां स्त्रियं भुङ्क्ते लक्ष्मीमिव चतुर्भुजः ॥१७४ ॥ अनीक्ष्य गेहिनीं तत्र पिङ्गलो दुःखितो भृशम् । दीनास्यो नरपोपान्ते गत्वाऽवग् मे प्रिया गता ॥ १७५ ॥ रथकुण्डल आचष्ट पोतनाभिधपत्तने । एका नारी मया दृष्टा साध्वीपाश्र्वे मनोहरा ॥१७६ ॥ गत्वा तत्र पुरे पत्नी-मदृष्ट्वा मधुपिङ्गलः । पुनः पश्चात् समेत्याऽवग् न दृष्टा स्वप्रिया मया ॥१७७ ।। कुण्डलेन तदा हृत्वा नृपपार्थाच्च पिङ्गलम् । बहिनिष्कासयामास तत्पत्न्यासक्तचेतसा ॥१७८ ॥
३२२॥
SPSSPS
For Private and Personal Use Only