________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥३२
॥
PEHLISHESESEGISESESESE
अधुना चाऽजयक्ष्माप-भाग्याव् रोमछिदे पुनः । दातुमिच्छाम्यहं पार्श्व-बिम्बमीक्ष्वाकुजन्मनः ॥६४ ॥ स च जित्वा दिशः सर्वा द्वीपाख्ये पत्तने वरे । समेतोऽस्ति ततस्तस्मै देहि बिम्बं सुसम्पदे ॥६५॥ कुर्वतोऽजयपालस्य पूजा पार्श्वजिनेशितुः । यास्यन्ति निखिला रोगा भविष्यन्ति च सम्पदः ॥६६॥ तव पार्श्वजिनेशस्य तस्य पूजयतोऽनिशम् । सम्पदो राजमानत्व-मिह मुक्तिः परत्र च ॥ ६७॥ प्रतिमाया अहं तस्याः सेविकाऽस्मि प्रभावती । मयैतन्निखिलं चक्रे मेघविकुर्वणादिकम् ॥ ६८ ॥ आकर्यैतद्वचस्तस्या रत्नसारोऽथ सेवकान् । प्रविश्य जलधौ पार्श्व सम्पुटस्थमकर्षयत् ॥६९ ॥ सम्पुटं रत्नसारस्त-द्यावद्यानान्तरेऽनयत् । तावद् मेघो ययौ नाशं गम्भीरोऽभूत पयोनिधिः ॥ ७० ॥ ततः पार्थस्थिते द्वीपे विक्रीय च क्रयाणकम् । त्रिगुणं चार्जयामास धनं तस्मात् क्रयाणकात् ॥७१ ॥ समर्घवस्तुना भृत्वा यानं सांयात्रिकः स च । वहनं चालयामास द्वीपं प्रति जिनं स्मरन् ॥७२॥ पार्श्वनाथप्रभावेण रत्न-सारः सुखं लघु । अनैषीद्वहनं द्वीप-पत्तनेऽतिमनोहरे ॥७३॥ प्रतिमां पार्श्वनाथस्य सप्रभावां नराननात् । आगतां नृपतिर्ज्ञात्वा-ऽदात्तस्मै पारितोषिकम् ॥ ७४ ॥ कुर्वन् महोत्सवं भूपः पादचारी प्रमोदतः । संमुखं पार्श्वनाथस्य ययौ पाथोनिधेस्तटे ॥७५॥ वायेषु वाघमानेषु नृत्यत्सु नर्तकेषु च । भट्टलोकेषु गायत्सु दीयमाने धनेऽथिने ॥७६॥
BT52525252STISSISESESESC
11३२०॥
For Private and Personal Use Only