SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir - शत्रुञ्जय कल्पवृ. ॥ ३१९॥ STLESSSSSSSPाजा शुभवाताच्चलद्यानं घस्रांत्रिंशत् पयोनिधौ । एकत्रिंशत्तमे घने रत्नसारो वणिकपतिः ॥५१॥ द्वीपं निरीक्ष्य भूयिष्ठं दानं विश्राणयन् भृशम् । वादिबनिनदैः पूर्ण्य-कार्षीत् सर्व नभस्तलम् ॥ ५२ ॥ युग्मम् ॥ तदाऽकस्माद् घनो व्योम छादयन्नभ्रमण्डलैः । गर्जन करटिवद् भीष्मा-कारस्तत्रागमत् क्षणात् ॥ ५३॥ वात्यावर्तभ्रमत्पोतं वीक्ष्य सांयात्रिका जनाः । जगुर्यानस्य भङ्गेन प्राणा यास्यन्ति वोऽधुना ।। ५४ ।। ततः सर्वे जनाः स्वं स्वं देवं स्मरत आदरात् । एकाग्रमानसा जाता ध्यानगाः संयता इव ॥५५॥ जीवन्ति येन मेघेन वर्षता मनुजाः खलु । स एव साम्प्रतं जीवान् घातयिष्यति शीघ्रतः ॥५६॥ लुलत्कन्दुकवत् पोतः प्रहतः परितोऽधुना । कल्लोलयष्टिभिः सद्यः शतखण्डो भविष्यति ॥५७ ॥ यावद्यानं न शीर्येत यावद् डन्ति नो जनाः । तावन्निपत्य पाथोधौ प्राणान् त्यजाम्यहं स्वयम् ॥५८॥ ध्यात्वेति स यदा पोत-प्रान्ते त्यक्तुमसून् ययौ । तदाऽकस्मादभूद्वाणी तच्छ्रोतो(त्र)हर्षदायिनी ॥५९ ॥ मा म्रियस्व स्थिरं तिष्ठ हिताय तव साम्प्रतम् । इदं मया कृतं सर्व रत्नसार वणिग्वर ! ॥६॥ अत्र नीरनिधेरन्तः कल्पद्रसंपुटावृता । भाविनः श्रीजिनेन्द्रस्य पार्श्वस्य प्रतिमाऽस्ति हि ॥ ६१ ॥ धरणेनाऽचिंता वर्ष-लक्षं सा बलिसमनि । षड्वर्षशतयुग वर्ष-लक्षं वैश्रमणेन च ।। ६२ ।। वर्षलक्षाणि सप्ताथ वरुणेन निजालये । पूजिता प्रतिमैषा च कल्याणसुखहेतवे ॥ ६३ ॥ SPSS2SCT5525252STS ॥३१९॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy