________________
Shri Mahavir Jain Aradhana Kendra
शत्रुजय कल्पवृ०
॥ ३१८ ॥
MPSPSS2552525252525225252
www.kobatirth.org
अन्वदा भूपतेरगे रोगोऽसाध्योऽजनि स्फुटम् । तदा केनापि वैद्येन नास्फेटि तच्छरीरतः ॥ ३८ ॥ ततो राज्ञ्या सुशीलिन्या करस्पर्शान्महीपतेः । शान्तो रोगस्ततः सर्व प्रजाभिर्मुदितं भृशम् ॥ ३९ ॥ स भूपत्वरितं त्यक्त्वा त्वा सुर्वन्ति के व्रतम् । कर्म्मक्षयाद्ययौ मुक्ति पुर्या भूयिष्ठसाधुयुग् ॥ ४० ॥ सोदासोऽथाऽभवत् सिंह-रथो विजितशात्रवः । ततो ब्रह्मरथो जात श्रतुर्मुखोऽभवत्ततः ॥ ४१ ॥ ततो हेमरथशत-रथराजादयस्तथा । आदित्यरथमान्धातृ वैरासनस्ततः क्रमात् ॥ ४२ ॥ प्रतिमन्युनृपस्तत्र बन्धुभूमिपतिस्ततः । रविमन्युरभूद्राजा वसन्ततिलकस्ततः ॥ ४३ ॥ ततः कुबेरदत्तोऽभूत् श्रीकण्ठः शरभस्ततः । ततः सिंहो महासिंहो हिरण्यकसिपुस्ततः ॥ ४४ ॥ पुञ्जस्थलः ककुडोऽथ रघुभूमीपतिस्ततः । एतेषु निर्वृति केचिद् गताः केचित् सुरालयम् ॥ ४५ ॥ अनरणो नृपस्तस्मात् साकेतपत्तनेऽभवत् । ततोऽजयोऽभवत् पुत्रो रूपनिर्जितमन्मथः ॥ ४६ ॥ स शत्रुन् स्ववशान् कुर्वन् पूर्वोपार्जितकर्मणा । सप्तोत्तरशतेनैव व्याधिभिः पीडितोऽजनि ॥ ४७ ॥ एवं विधामयाग्रस्त लसत् पौरुषशालिनः । साधयामास दुःसाधान् धराधीशान् परःशतान् ॥ ४८ ॥ जयन् शत्रुन् महीपालः सुराष्ट्रमण्डलं ययौ । नत्वा शत्रुञ्जये देवान् गतश्च देवपत्तने ॥ ४९ ॥ इतः सांयात्रिको रत्न- सारो विभवहेतवे आपूर्य वस्तुभिर्यानं चचालाऽम्भोधिवर्त्मनि ॥ ५० ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
45852552525252525525525
॥ ३१८ ॥