________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुञ्जय कल्पवृ.
॥३२१ ॥
1272525252512ZSEGI
उत्सृजद्ध्वजसद्गन्धि-कर्पूरागरुधूपनैः । तत् सम्पुटं करे कृत्वा भूपस्तत्र समानयत् ।। ७७॥ युग्मम् ।। कृत्वा पूजोपहारादि सम्पुटं नृपतिः स्वयम् । उद्घाटयन् जिनं पाच ददर्श शेषसेवितम् ॥७८ ॥ फणीशसेवितं छत्र-त्रयी-भासितशीर्षकम् । पद्मासनस्थित वीज्य-मानोभय(सु)चामरम् ॥ ७९ ॥ श्रीवत्सलाञ्छितो रस्कं कल्पद्रमसहोदरम् । बिम्बं श्रीपाश्र्वनाथस्य ददर्शाऽवनिनायकः ॥८॥ निजनामाभिधं ग्राम-मजया मनोहरम् । वासयित्वा जिनागारं महत्तममचीकरत् ॥ ८१ ।। कारयित्वा जिनागारं स्फारं ग्रामान्तरे नृपः । तस्मिन्नतिष्ठिपत् पार्श्व-प्रतिमां रुचिरोत्सवम् ॥ ८२ ।। प्रभोः स्नात्राम्बुना राज्ञोऽन्येषां च देहिनां तदा । रोगा ययुः क्षयं ऋद्धि-वृद्धिश्च समजायत ॥ ८३ ॥ पार्श्वस्य प्रतिमा रत्न-सारस्यार्चयतः सतः । त्रिंशत्कोटिमितं हेम जातं गेहे वृषं पुनः ॥ ८४ ॥ शाकिनी-भृत-वैताल-रक्षो-यक्षोद्भवा अपि । उपसर्गाः क्षयं यान्ति श्रीपार्श्वस्मरणात् किल ॥ ८५ ॥ कालज्वर-विषोन्माद-सन्निपातमुखा अपि । आमया विलयं यान्ति श्रीपार्श्वस्मरणाद् नृणाम् ।। ८६ ॥ विद्या-लक्ष्मी-प्रिया-पुत्र-पुत्री-कीर्त्यभिलाषिणाम् । विद्यादयो भविष्यन्ति श्रीपार्श्वस्मरणात् नृणाम् ॥ ८७॥ प्रतिमा बहुकालीना तीर्थमेवोच्यते बुधैः । इदं तीर्थमतः सेव्यं सुरासुरनरैरपि ॥ ८८ ॥ * यतः-" पञ्चवर्षशतातीतं तबिम्बं तीर्थमेव हि । वर्षलक्षव्यतीतस्य बिम्बस्य तु किमुच्यते ॥१॥
SSESSOSSESSZIS252752SSESI
mmmmmmmmmmmmmmm
amanamatarnamaan
॥३२१३
For Private and Personal Use Only