________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
KLETSTZSISESTSEST25TSSESE
राजा कीर्तिधरोऽन्येधु-निविष्टो विष्टरे वरे । राहुणा ग्रसितं सूर्य-विम्ब व्योम्नि व्यलोकयत् ॥७॥ दध्यौ च नृपतिः सूर्यों राहुणा जगृहे यथा । तथा जीवोऽपि ममता-युक्तो यमेन लास्यते ॥ ८॥ तस्मादसारमेतद्धि राज्यं नरकदायकम् । लघु मुक्त्वा व्रतं लात्वा तपः कुर्वे शिवाप्तये ॥९॥ वतं लास्यामि भृपेन प्रोक्त मन्त्रीश्वरा जगुः । विना त्वां पृथिवी सर्वा कस्याधारे भविष्यति ? ॥१०॥ अमात्याग्रहतस्तस्य पातः पृथ्वी नयाध्वना । सहदेवी सुतं वर्य-मसूत शुभवासरे ॥११॥ जन्मोत्सवे कृते तस्य सुकोसलेति नाम च । दत्त्वा राज्यं वितीर्या-थ व्रतं कीर्तिधरो ललौ ॥१२॥ गुरूक्त-विधिना तीनं तपः कुर्वन् निरन्तरम् । भिक्षार्थ नगरे तस्मि-नागात् कीर्तिधरो यतिः ॥१३॥ * यत:-"घोरं तवं तप्पइ गिम्हकाले, मेहागमे चिट्ठइ रन्नठाणे ।
हिमंतमासेसु तवोवणत्थो झाणं पसत्थं विमलं धरेइ ॥१॥ भिक्षायै यान्तमालोक्य सहदेवी पति निजम् । दध्यौ मे नन्दनस्यैष कान्त एष्यति चक्षुषोः ॥१४॥ यदा तदा विहायाऽऽशु राज्यं लास्यति संयमम् । ततोऽधुना पुराद्वाह्य-देशे निःकाशयाम्यमुम् ॥१५॥ ततः स्वसेवकोपान्तात् तं यति चान्यलिङ्गिनः । राज्ञी निःकाशयामास पुर्या बहिश्च निःकृपा ॥१६॥ धात्री कीर्तिधरं साधुं कर्षितं नगराहिः । सहदेव्या विलोक्यैव रुरोद करुणस्वरम् ॥ १७॥
SISSESSZISZ52525252525
॥३१५॥
For Private and Personal Use Only