________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥३१४॥
ISTISSETSESTSESTIESESZES
श्री जैनगीतासम्बन्धः । (रामायणम् ) जहिं रामाइ तिकोडी इगनवई अ नारयाइ मुणिलक्खा ।
जाया उ सिद्धिराया जयउ तयं पुंडरी तित्थं ॥२०॥ यत्र तीर्थे श्रीरामः कोटित्रयसाधुयुतो मुक्तिं गतः, तथा नारदा एकनवतिःलक्षमुनियुता मुक्तिराजानोऽभूवन् जयतात् तत्तीर्थ, तथाहिआदित्ययश आयेषु भूपेषु पुण्यशालिषु । असङ्ख्थेषु प्रयातेष्व-योध्यायां पुरि सुश्रियि ॥१॥ विजयस्य नृपस्याभूद्-हिमचूलाभिधा प्रिया । अभूतां नन्दनौ वयौं वज्रबाहुपुरन्दरौ ॥२॥ युग्मम् ॥ धर्म श्रुत्वा गुरूपान्ते लात्वा दीक्षां तमःक्षयात् । अवाप्य केवलज्ञानं विजयो मुक्तिमीयिवान् ॥३॥ ततः पुरन्दरो भूपोऽभवन् न्यायिशिरोमणिः । तत्पत्नी पृथिवी कीर्ति-धरं पुत्रमजीजनत् ।। ४ ॥ कुशस्थलपुरे स्वामि-भूपस्य न्यायशालिनः । सहदेवीं सुतां कीर्ति-धरश्च परिणीतवान् ॥५॥ पुरन्दरोऽपि राज्यं स्वं कीर्तिधराय सूनवे । वितीर्यादाद् व्रतं क्षेमं-धरसूर्यन्तिके मुदा ॥६॥
S2SSE STESSES ZSESESESESE
॥३१४॥
।
For Private and Personal Use Only