________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
oramananews
शत्रुजय कल्पवृ०
॥ ३०८॥
SRSTSESEST SESIST2TTISSTE
न कश्चिचण्डकोपामा-मास्मीयोऽस्तीह भूतले । होतारमपि जुबानं स्पृष्टो दहति पावकः ॥२०॥ क्रोधो नाम मनुष्याणां शरीरे जायते रिपुः । येन त्यजति मित्राणि धर्माच्च परिहीयते ॥२१॥ सञ्चरन्तं शुभे मार्गे छलयन्ति जनं धनम् । पिशाचा इव दुःखौघ-दायिनो विषयाः समे ॥२२॥ युगपत् पश्चभिर्घातो विषयविषसन्निभैः । हन्तुं जन्तुरयं किन्तु कल्याणमपि गच्छति ॥ २३ ।। क्रोधेन ग्रसितो जीवो हिंसन् जीवान् बहून् भृशम् । नरके लभते दुःखं चन्द्रसेन इव क्षणात ॥२४॥ श्रीपुरे भीमसेनस्य चन्द्रसेनसुतोऽभवत् । वर्धमानः क्रमाताते द्वेष करति सन्ततम् ॥२५॥ विहत्य जनकं चन्द्र-सेनः प्राप्य बहुं श्रियम् । तृणप्रायं जगत् सर्व मेनेऽहकारमन्दिरम् ॥२६॥ * यत:-" इक्षुक्षेत्र-वंशजाली-कदली-विषपादपाः । फले जाते विनश्यन्ति दुःपुत्रेण कुलं यथा ॥१॥ मृत्वा श्वभ्रे गतश्चन्द्र-सेनो दुःखं श्रयन् धनम् । निर्गत्य जलधौ मत्स्यो जातः स्फाति झपान् बहून् ॥ २७ ॥ जीवहिंसोधतः श्वभ्रे गत्वाऽतिदुःखसन्ततिम् । सहित्वाऽथ वने भिल्लो-ऽभवत हिंसापरायणः ॥२८॥ ततः श्वभ्रं गतो दुःखं सेहे भिल्लासुमान् स च । ततो निर्गत्य भीमाहेबने पश्चाननोऽभवत् ॥ २९ ॥ - इत्यादि बहुशः श्वभ्र-मत्स्यव्याघ्रादिकान् भवान् । चन्द्रसेनासुमान् प्राप्य सेहे दुःखपरंपराम् ॥३०॥ एवं कषायतो जीवाः संसारे दुःखसन्ततिम् । लभन्तेऽतो न कर्त्तव्याः कषाया दुःखलक्षदाः ॥३१॥
ELGETS2525SESESPOSO
३०८॥
For Private and Personal Use Only