________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुञ्जय कल्पवृ०
॥ २९६॥
ESSESZSE2525252525252525
धावन सिंहस्तरोः स्कन्धे आस्फाल्य लोष्टुवत् दृढम् । पश्चादपासरद्भूमी न्यषसद काष्टवत् क्षणात् ॥१३॥ उत्थायोत्थाय पश्चास्यो धावन् हन्तुं प्रभुं तदा । पपात लोष्टबद् भूमौ कुष्ठं देहे ततोऽभवत् ॥१४॥ ततः पुनः पुनः पश्यन् प्रभुं दध्याविदं हृदि । एवंविधो मया साधुः कुत्रापि वीक्षितः पुरा ॥१५॥ एवं ध्यायन् हरिर्जाति-स्मृति प्राप्य क्षणात्तदा । प्राग्भवं द्विजजं चित्ते सस्मार शान्तमानसः ॥१६॥ तदोक्तं प्रभुणा पश्चा-द्भवं स्मर द्विजाधम ! । हिंसंस्त्वं श्रमणं मृत्वा जातो हरिरिहाधुना ॥१७॥ ततः पञ्चाननः शान्त-चेताः प्रभोः क्रमद्वयम् । नमन् निन्दति कर्म स्वं प्राग्भवोपार्जितं स्वयम् ॥१८॥ सिद्धाद्रपरि स्वामी यदागाद् विहरन् क्रमात् । तदा सोऽप्याययौ तत्र पश्चास्यः शान्तमानसः ॥१९॥ गृहीत्वाऽनशनं तत्र प्रभोः पार्श्वे हरिः स च । द्वितीये ताविषे जातः सुरो भासुरदीप्तिमान् ॥२०॥ मरुदेवाभिधे शृङ्गे स्वामी साधु-सुरैर्वृतः । अजितस्वामिवन्मासां-चतुरोऽस्थात् क्षरागमे ॥२१॥ तत्रैत्य हरिगीर्वाणः प्रणम्य प्रभुमुक्तवान् । त्वत्प्रसादादहं सिंहो मृत्वाऽभवं सुरो वरः ॥२२॥ त्वं मे माता पिता त्वं मे त्वं चार्या मे च सोदरः । त्वं सुहृत त्वं मम स्वामी स्वर्गसौख्यप्रदानतः ॥ २३ ॥ विहृते शान्तितीर्थेशे-ऽन्यत्र पश्चाननः सुरः । तत्र शृङ्गे महच्चैत्यं व्यधाच्छान्तिजिनेशितुः ॥ २४ ॥ तस्मिंश्चैत्ये स्फुरद्रत्न-मयं बिम्बमनोहरम् । न्यवीविशत् शिवप्राप्त्यै स्वस्याऽन्यस्य च बोधकृत ।। २५ ।।
252ESASTSSSESESESE
२९६॥
For Private and Personal Use Only