________________
Shri Mahavir Jain Aradhana Kendra
शत्रुब्जय
कल्पवृ०
॥ २९४ ॥
1570252525
www.kobatirth.org
पितुर्भक्त्या पितुर्मूर्त्ति चन्द्रकान्तमणीमयीम् । अस्थापयन्नृपस्तस्मिन् प्रासादे दुण्यहेतवे ॥ ३० ॥ चन्द्रशेखरराजर्षिः सर्वकर्मक्षयात् क्रमात् । अलञ्चकार कल्याण-नगरीं क्षीणपातकः ॥ ३१ ॥ नृपश्चन्द्रयशाः सङ्घ मेलयित्वा बहुं क्रमात् । सिद्धशैले ययौ नन्तुं जिनान् कुर्वन् महोत्सवम् ॥ ३२ ॥ सोsपि भूपः कचित्तत्र वीक्ष्य जीर्णान् जिनालयान् । उद्दधार व्ययँल्लक्ष्मीं नवीनांव व्यधाद् वरान् ||३३|| ततो रैवतसम्मेत-शिखरार्बुदसानुषु । यात्रां कृत्वा व्यधाद् भूपो नवीनान् श्रीजिनालयान् ॥ ३४ ॥ लक्षार्द्धं जिनसद्मानि विम्बानि कोटिपश्चकम् । कारयामास भूपालो भूयिष्ठविभवव्ययात् ॥ ३५ ॥ क्रमात् स्वं नन्दनं राज्ये न्यस्य चन्द्रयशा नृपः । गृहीत्वा संयमं कर्म-क्षयात् कल्याणमीयिवान् ||३६||
+
वासासु चउमासं जत्थ ठिया अजियसंतिजिणनाहा । बियसोलधम्मचक्की जयउ तयं पुंडरी तित्थं ॥ १८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
शान्तिनाथस्य वर्णनत्वात् इयं गाथाsत्र व्याख्येया, अजितजिनस्य पश्चाद् व्याख्या कृता, वर्षा चतुर्मासी यत्र तीर्थे अजित- शान्तिनाथौ द्वितीय- पोडशधर्म्मचक्रिणौ स्थितौ तत् पुण्डरीकं तीथे जयतात् तथाहि
8525525ES SESESESESESESES
॥ २९४ ॥