________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
सिद्धाद्रौ ये जना देवं ध्यायन्ति पूजयन्ति च । अल्पकालादपि क्षिप्त्वा कर्म यास्यन्ति ते शिवम् ॥५॥ प्रासादप्रतिमायात्रा-पूजादानादि कुर्वते । सिद्धाद्रौ ये गमिष्यन्ति तेऽपि निवृतिमञ्जसा ॥६॥ श्रुत्वेति व्यन्तराधीशा-स्तदैवोत्पन्नभक्तिकाः । चक्रुः सिद्धाचले जीर्णो-द्धारान् नव्यान् जिनालयान् ॥ ७ ॥
शत्रुजयम
कल्पवृ.
IS252525252525252
॥श्री चन्द्रयशःकृतो नवमोद्धारः ॥ चन्द्रप्रभुर्जिनाधीशो बोधयन् भव्यमानवान् । ययौ शत्रुञ्जये शैले सुरासुरनमस्कृते ॥१॥ तत्र प्रबोध्य भव्याङ्गि-वातं भूरि जिनेश्वरः । सगरानीतपाथोधि-तीरे ब्राह्मथास्तटेऽगमत् ॥२॥ शशिप्रभापुराधीश-शशिशेखरभूपतेः । राज्ञी चन्द्रप्रभाह्वाऽऽसीत् पुत्रश्चन्द्रयशोभिधः ॥३॥ राज्ञीपुत्रयुतो राजा नत्वा चन्द्रप्रभं जिनम् । धर्म श्रोतुमुपाविष्टो भवाम्भोनिधितारकम् ॥४॥ * आदित्यस्य मतागतैरहरहः संक्षीयते जीवितं, व्यापारैर्बहुकर्मभारगुरुभिः कालो न च ज्ञायते के दृष्ट्वा जन्मजरा विपत्तिमरणत्रासश्च नोत्पद्यते, पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ५ ॥ सेवितात् पुण्डरीकाद्रे-या॑नाजिनपतेरपि । इह सम्पद्यते लक्ष्मीः परत्र निर्वतिर्नृणाम् ॥६॥
॥२९१ ॥
S52SSISTSS255255255DS
For Private and Personal Use Only