________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
स्वामिनृसिंहसेनाद्या रुचिरा गणधारिणः । अभूधन पश्चनवति-प्रमाणा जिनभतिकाः ॥ २८६ ॥ शत्रञ्जये बहून् वारान् गत्वा प्रबोध्य मानवान् । समेतशिखरेऽन्येधु-रजितस्तीर्थकृत ययौ ।। २८७ ॥ यतः-सहस्रत्रितयवारान् शत्रुञ्जयमहीधरे । अजितः समवासार्षीत् साधुसुरनृपाऽऽनतः ॥१॥" सहस्रसाधुसंयुक्त-स्त्यक्तमासाशनोद्यतः । चैत्रस्य शुक्लपश्चम्यां जगाम परमं पदम् ॥ २८८ ॥ सगरोऽपि बहून् भव्यान् बोधयन्नजितेशवत् । घातिकर्म क्षयादाप केवलज्ञानमुज्ज्वलम् ॥ २८९ ॥ प्रबोध्य सुचिरं भव्य जीवान् सुधर्मकर्माणि । श्रीमत्-सिद्धाभिधे शैले सगरर्षिः शिवं ययौ ॥२९॥
शत्रुजय कल्पवृ०
३२९०॥
PSS2SSTEGLSTSZSZSLASTITI
BULLSESSESEISESSSESSESE
॥ श्री व्यन्तरेशकृतोद्धारः ॥ - जिनोऽभिनन्दनोऽन्येद्यु-विहरन् वसुधातले । ययौ शत्रुज्जये शैले भवाब्धितारणे नृणाम् ॥ १ ॥
राजादनीतले देव-कोटाकोटि-निसेवितः । शत्रुञ्जयस्य माहात्म्यं जगादेत्यभिनन्दनः ॥२॥ अयं शत्रुञ्जयक्ष्माध्र आन्तराऽरिनिषूदनः । सर्वपापहरो मुक्ति-सातसन्ततिदायकः ॥३॥ प्राप्तेषु मुक्तिमहत्सु नष्टे धर्मेऽपि केवले । सर्वकल्याणकृत्तीर्थ-मिदमेव भविष्यति ॥४॥
For Private and Personal Use Only