________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
-
शत्रुञ्जय कल्पवृ०
॥२८८॥
SSSSSSSSESESESE
शिखरेऽथ सुभद्राऽऽख्ये द्वितीयस्य जिनेशितुः । अचीकरन् जिनागारं चक्री रूप्यमयं महत् ॥ २६६ ॥ सुचारित्रैर्गणाधीशैः सुश्राद्धैः सुरैरपि । चक्रे तंत्र प्रतिष्ठाया महः पूजापुरस्सरम् ॥ २६७ ।। प्रासादोद्धरणं कृत्वा सगरो विमलाचले । अचालीदैवतं शृङ्गं नन्तुं नृपनरैः समम् ॥२६८ ॥ चन्द्रप्रभं जिनं तीर्थे वर्ये चन्द्रप्रभासके । नत्वा चक्री ययौ नन्तुं रैवतं शृङ्गमञ्जसा ॥२६९॥ त्रिःप्रदक्षिणयन् शृङ्गं रैवतं सगरो नृपः । पूजां व्यधाजिनेशस्य विस्तरात् कुसुमादिभिः ।। २७०॥ एवमर्बुदभूमीधा-दिकतीर्थेषु शालिषु । अर्चयित्वा जिनानागा-दयोध्या लसदुल्सवम् ॥ २७१ ॥ पावयन् धरणी पट्या-मजितस्तीर्थकृत् क्रमात् । अयोध्यानगरोद्याने सुराज़ः समवासरत् ।। २७२ ॥ श्रुत्वा जिनागमं चक्री गत्वा नत्वा जिनक्रमौ । धर्म श्रोतुमुपाविष्टो यथास्थानं च संसदि ॥ २७३ ॥ सार्वभौमप्रबोधाय जिनाधीशोऽजितस्तदा । धर्मोपदेशनां कर्तुं प्रववर्ते इति स्फुटम् ॥ २७४॥ तथाहि-" राज्यं पुत्रकलत्रबन्धुनगराण्यावासवित्तादिकं, देवर्द्धिश्च भवे भवेऽत्र सुलभान्यन्यानि रम्यान्यपि । मुक्ताविद्मरत्नवत्पुनरिदं चारित्रमुक्तं जिन-श्चिन्तारत्नमिवातिदुर्लभतमं सर्वार्थसंसाधकम् ॥१॥" चारित्रादेकदिवस-पालितादपि मानवः । अवश्यं कर्मसङ्घातं क्षिप्त्वा याति परं पदम् ॥२७५॥ न च राजभयं न च चौरभयं इहलोकसुखं परलोकहितम् । वरकीर्तिकरं नरदेवनतं श्रमणत्वमिदं रमणीयतरं ॥
25PSTGES25252SASTAPTISTS
८८॥
For Private and Personal Use Only