________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शवजय कल्पवृ०
॥२८६॥
PST55GOTSESESTICSCSESTI
ततो विस्तरतो मूल-नायकस्य पुरी नृपः । स्नात्रपूजा-ध्वजारोपा-ऽऽरात्रिकादिविधि व्यधात् ॥ २४३॥ ततो देवाभिधे शृङ्गे बाहुबल्यभिधे पुनः । तालध्वजे च कादम्बे हस्तिसेनाह्वये पुनः ॥२४४॥ लौहिताख्ये 'मुकुन्दाख्ये सुन्दरे च पुरन्दरे । इत्यादि सर्वशृङ्गेषु पूजां चक्रेऽर्हतां नृपः ॥२४५ ॥ युग्मम् ॥ मृदङ्ग-झल्लरी-घण्टा-छत्र-चामरमोचनम् । प्रभोः पूजाकृते चक्री चकारामोदपूरितः ॥ २४६ ॥ इन्द्रोत्सवं हारपूजा छत्र-चामरमोक्षणम् । रथावन्यश्वदानानि व्यधाच्चक्री गुरोगिरा ॥ २४७॥ प्रासादान कारितान् रूप्य-रत्नहेममयान् वरान् । अन्यैरपि नृपैदृष्ट्वा सगरो ध्यातवानिदम् ॥ २४८ ॥ विवेकविकला धर्म-रिक्ता लोभान्धचक्षुषः । कालमाहात्म्यतो लोका भविष्यन्त्यग्रतः खलुः ॥ २४९ ।। ततो हेमादिलोभेन लोकाः पापमलीमसाः । करिष्यन्त्येव विध्वंसं प्रासाद-विम्बयोरपि ॥२५० ॥ तेनाहमस्य तीर्थस्या-म्भोधेलाधिकर्षतः । विधाय परिखां रक्षा करोम्येष प्रयत्नतः ।। २५१ ॥ नयन्नधिप्रवाहं स सगरः परितो गिरेः । टंककान कङ्कणान् स्वर्णान् बर्बरान् सिंहलानपि ॥ २५२॥ लाट-सुराष्ट्र-भाटादि-विषयान् विविधांस्तदा । प्लावयन् चक्रिराट् प्रोक्तः शक्रेणेति सुभक्तिकम् ॥२५३ ॥ अधुना प्लावयन् पृथ्वी वेलया वारिधिः खलु । शत्रुञ्जयस्य तीर्थस्य विध्वंसं त्वं करिष्यति (सि ) ॥२५४ ॥ याते तीर्थस्य विध्वंसे कस्मिन् भविकमानवाः । यात्रां कृत्वाऽर्जयिष्यन्ति मुक्तियोग्यं वृष खलु ॥२५५ ॥
BETISHSESSESESSESSSSSIST
॥२८६॥
For Private and Personal Use Only