________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय
कल्पवृ०
25SSSSES 25252SPSZSZ
॥२८५॥
यावद्वर्षसहस्राणि पूजयन्ति जिन जनाः । तावत्कालं बिम्बकर्ता लभते तत्फलांशकम् ॥२३०॥ श्रुत्वेति सगरश्चक्री हेम्नो देवालयान् वरान् । शतान्यष्टौ व्यधान्मन्त्रि-पाश्र्वाद् भूरिधनव्ययात् ॥ २३१॥ सहस्रं सप्तकं काष्ठ-मयान् देवालयान् पुनः । कारयामास चक्रेश-स्तीर्थयात्राकृते तदा ॥ २३२ ।। आकारितस्तदा सङ्घ-विंशत् कोटिनरप्रमः । मिलितश्चक्रिणः सङ्घ आचार्या बहवः पुनः ॥२३३ ।। द्वात्रिंशत् सहस्राणि नृपा मुकुटबद्धनाः । आगताचक्रिणस्तस्य सङ्घ यात्राकृते तदा ॥ २३४ ॥ इत्यादि भूरिभिः श्राद्धैः श्राविकाभिश्च भूरिशः । महाधरैर्महोभिश्च सहितश्चक्रनायकः ॥ २३५ ।। गायत्सु मागधायेषु नृत्यत्सु नर्तकेषु च । धवलेषु दीयमानेषु पुरन्ध्रीभिश्च सोऽचलत् ॥ २३६ ॥ प्रपूजयन् पुरे ग्रामे जिनाधीशान् सदुत्सवम् । नमन्मुनीन् ददद्दानं चक्री सिद्धाचले ययौ ॥ २३७॥ तत्रानन्दपुरे नाम्ना वृद्धनगरसज्ञके । कारिते भरतेनाऽऽदि-जिनौकस्यनमजिनम् ।। २३८ ॥
आनन्दाहपुरे देव-पूजां कृत्वा सुविस्तरात् । चक्री चकार साधर्म्य-वात्सल्य विपुलं तदा ॥२३९ ।। H त्रिःप्रदक्षिणयंस्तीर्थ भूपः सङ्घन शालितः । आरुरोह गिरिं दानं ददन्नुत्सवपूर्वकम् ॥ २४०॥ H आदौ श्रीवृषभं पुष्प-रर्चयित्वा च चक्रिराट् । राजादनीतले पादौ प्रभोरपूजयन्मुदा ॥ २४१ ॥
तदा तत्राऽऽगतः शक्रः प्रणम्य वृषभं प्रभुम् । मिलितश्चक्रिणा राजा-दनीवृक्षतले मुदा ॥२४२ ॥
2255155PSESESSPSSZ:25
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
॥२८५॥
2525
For Private and Personal Use Only