________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥२८४।
PRISESSISESSISS SELEOS
सगरोऽपि प्रणम्याथ ज्ञानिनं तं सुभक्तितः । निजावासमलचक्रे पुत्रद्वयसमन्वितः ।। २१८ ।। अन्येधुश्चकिराइ गत्वाऽजितस्य स्वामिनोऽन्तिके | शत्रुञ्जयस्य माहात्म्यं शुश्रावेति कृतादरः ॥ २१९ ।। * ये शत्रञ्जयतीर्थे तु यात्रां कुर्वन्ति मानवाः । तेपां स्वर्गापवर्गादि-सुखाली जायते चिरम् ॥ २२० ॥॥ . * " यतः-प्राणिभियं समारूढः लोकाग्रमतिदुर्लभम् । प्राप्यते स च सिद्धादि-दुर्लभो देहिनामिह ॥१॥ * अभव्या पापिनो जीवा सिद्धादि भावतो न हि । पश्यन्ति न नमस्यन्ति पूजयन्ति च नो पुनः ॥ २२१ ॥ * सिद्धाद्रौ मणिरत्नायै हेमरुप्यदृपच्चयैः । काष्ठैर्वा जिननाथस्य प्रासादः प्रवितन्यते ।। २२२॥5 * कारयन्ति जिनानां ये तृणावासानपि स्फुटम् । अखण्डितसुखान्येव लभन्ते ते त्रिविष्टपे ॥ २२३ ॥ * काष्ठादीनां जिनावासे यावन्तः परमाणवः । तावन्ति पल्यलक्षाणि तत् कर्त्ता स्वर्गभाग् भवेत् ॥ २२४ ॥ * नूतनाहद्वरावास-विधाने यत्फलं भवेत् । तस्मादष्टगुणं पुण्यं जीर्णोद्धारे विवेकिनाम् ॥ २२५ ॥5 * शत्रुञ्जयादितीर्थेषु प्रासादाः (न् ) प्रतिमाश्च ये। कारयन्ति हि तत्पुण्यं ज्ञानिनो यदि जानते ।। २२६ ॥ * बिम्बानि जिननाधानां मणिरत्नश्च हेमभिः । रूप्यैः काष्ठेदृषद्भिर्वा मृदा वा भावशुद्धितः ॥ २२७ ॥ * एकाङ्गुष्ठादिसत्सप्त-शताङ्गुष्ठावधि प्रभोः । यः कारयति भव्यात्मा मुक्तिश्रीस्तस्य वश्यगा ॥२२८॥ युग्मम् ॥ * प्रतिष्ठामर्हतो यो हि कारयेत् सरिमन्त्रतः । सोऽर्हत् प्रतिष्ठां लभते यथा वापस्तथा फलम् ॥ २२९ ॥
GOST155PS2S2S3SPSSSSS
Ammaamanamanmammmmmmmmm
२८४
For Private and Personal Use Only