________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुञ्जय कल्पवृ०
॥२७९॥
SESSZISESEISESTSESTUSEST
औषधैर्भूरिभिर्दत्तैन जिजीव यदा स च । तदा शक्रो भिषग् रूप-धरोऽभ्येत्य जगावदः ॥१६० ॥ यस्यालये न कः पूर्व मृतोऽस्ति मानवः खलु । भूतिर्महानसात् तस्या-नीयतां भृत्यपार्श्वतः ॥१६१ ॥ तेनैव भस्मना विप्र-पुत्रोऽवगुण्डयते यदि । तदा जीवति चक्रीश ! नान्यथा कहिचित्तदा ॥ १६२ ॥ ततो यस्य गृहे यान्ति भस्म लातुं नृपानुगाः । तदा तद्गेहनेतारः प्रोचुरेवं जनान् प्रति ॥१६३ ॥ अस्माकं सदने पित्रादयः पूर्व मृताः किल । ततो भूपानुगा लोक प्रोक्तं प्रोचु पाग्रतः ॥ १६४ ॥ ततो जगाद चक्रीशो मारिहीनाद् गृहान्मम । महानसोद्भवं भस्म भृत्या आनय तं द्रतम् ॥१६५ ।। चक्रिभृत्येषु गृह्णत्सु भस्म चक्रिनिकेतने । चक्रिपत्न्यो जगुर्मृत्यु प्रययुः पूर्वजो घनाः ॥ १६६ ॥ ज्ञात्वैतच्चक्रिराट् प्राह समस्तलोकसद्मसु । पञ्चत्वं पूर्वजा जग्मुः क्रियतेऽत्र किमौषधम् ? ॥१६७॥ ततो रुदति भूदेवे-ऽत्यन्तं चक्रिसुतानुगाः । तत्रैत्योचुर्मृति स्वीय-स्वामिनां ज्वलनाहितः ॥१६८ ॥ श्रुत्वैतत् सगरोऽत्यन्तं रुदन् दीनस्वरं भृशम् । रोदयामास पार्श्वस्थान मानवान् पक्षिणोऽपि च ॥१६९ ॥
रुदन् बाढं न चक्रेशो यदा तस्थौ मनागपि । तदा स वाडवः प्राह रुद्यते किं त्वया नृप ! ॥ १७० ॥ H ममैको नन्दनो मृत्यु-गतोऽभूवमहं हतः । निराधारस्य मे सारं कः करिष्यति सम्प्रति ? ॥ १७१ ।।
यदा जीविष्यति मे पुत्रस्तदा जीवाम्यहं ननु । मृते पुढे मयाऽवश्यं हत्या देया तवाधुना ॥ १७२ ।।
L2E52SSESES2SS2SSZIS:SESTE
॥२७९।।
For Private and Personal Use Only