________________
Shri Mahavir Jain Aradhana Kendra
शत्रुजय
कल्पवृ०
॥ ९॥
15 25 2522525255 25 252525525
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
rect यामान् त्वया रत्नं हृतं यस्याः पुरा भवे । तेनाष्टौ हायनान् यावद्राज्यं तव ललेऽरिणा ॥ ३४ ॥ * यतः - ' फरुसवयणेण दिणतवं अहिक्खिवंतो हणेड़ मासतवं । चरिसतवं सवमाणो हणइ हणतो अ सामन्नं ॥ १ ॥ * तिब्वयरे उ पओसे सयगुणिओ सय सहस्सकोडिगुणो । कोडा कोडिगुणो वा हुज्ज विवागो बहुतरो वा ||२|| श्रुत्वेतनिजपुत्राय दत्वा राज्यं सदुत्सवम् । प्रान्तेऽनशनतो मृत्वा मदनः स्वर्ग मीयिवान् ॥ ३५ ॥ सूर: कुसङ्गतेर्योगात् आप व्यसनसप्तकम् । दिनं प्रति पशून् भूरीन् हन्ति पापर्द्धिसङ्गतः ॥ ३६ ॥ एकदा शूकरो हन्य- मानो भूमीभुजा दृढम् । दंष्ट्रया भूपतिं पृष्ठे जघानातीव निर्दयम् ॥ ३७ ॥ यथा यथा विधीयेत चिकित्सा भूपविग्रहे । तथा तथाऽभवत्कुष्ठं गलत्पीडाविधायकम् ॥ ३८ ॥ राजा चिकित्सितो वैधैर्भूरिभिर्विविधौषधैः । सज्जो नाभूद्यदा दुःखी तदातिं कुरुते हृदि ॥ ३९ ॥ गङ्गा-गयादितीर्थानां पयोभिः स्नपितो नृपः । नीरोगो न यदा जातस्तदा मन्त्रीश्वरान् जगौ ॥ ४० ॥ पावकेन करिष्यामि प्राणत्यागमहं लघु । ततो राजा ययौ प्रेत वने त्यक्तुं तनुमसौ ॥ ४१ ॥ तदा तत्रागतो ज्ञानी जगौ म्रियस्व मा नृप । राजा प्राह न शक्नोमि क्षणं कुष्ठप्रपीडितः ॥ ४२ ॥ यदि कुष्ठं व्रजेद् देहान्मदीयात् साम्प्रतं द्रुतम् । तदा मे जीवितं भूयान्नान्यथा मरणं पुनः ॥ ४३ ॥ ज्ञानी प्रोवाच चैत्रस्य पूर्णिमाया दिने प्रगे । गत्वा शत्रुजये चन्द्र-कुण्डे नीरेण हारिणा ॥ ४४ ॥
For Private and Personal Use Only
52552525255
5255252
॥९॥