________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥१०॥
SESSISSESSESSPS222SSTSE
स्नानं कृत्वा मुदा राजा-दन्या अधःस्थमृत्स्नया । रूषयित्वा तनुं स्नानं क्रियते शतसख्यया ॥४५॥ ध्यानं युगादिदेवस्य क्रियते प्रतिवासरम् । तदा पञ्चदशे घने कुष्ठं याति न संशयः ॥ ४६॥ श्रुत्वैतां ज्ञानिनो वाणी राजा ज्ञान्युदितं मुदा । कुर्वन् कुष्ठं निजाद् देहाद् गमयामास वेगतः ॥४७॥ विमले विग्रहे जाते भूपोऽसङ्ख्यनृपान्वितः । शत्रुञ्जयस्य नामादाद्विमलाद्रिरिति ध्रुवम् ॥ ४८ ।। ततः स एव भूपालस्तीर्थे विमलनामनि । यात्राः शतप्रमाश्चक्रे-ऽसत्यक्ष्मापसमन्वितः ॥ ४९ ।। कुर्वन् शत्रुजये यात्रां भूपोऽसङ्ख्यजनाश्रितः । अर्जयामास कल्याणा-गमकृत्कर्म धर्मतः ॥ ५० ॥ * यतः यो दृष्टो दुर्गति हन्ति प्रणतो दुर्गतिद्वयम् । सङ्घशार्हन्त्यपदकृत् स जीयात् विमलाचलः ॥१॥॥ स्वपुत्राय निजं राज्यं वितीर्य सूरभूपतिः । शत्रुजये गिरौ लात्वा (गत्वा) तपश्चक्रेऽतिदुष्करम् ॥५१॥ सूरस्तीनं तपः कुर्वन् केवलज्ञानमाप्तवान् । ततः प्राबूबुधद् भव्य-जनान् धर्म जिनोदितम् ॥५२॥ सहस्रत्रयसत्साधु-सहितः सूरसंयतः । विमलो विमलक्ष्माभ्रे मुक्तिपु- समीयिवान् ॥५३ ।। यतः-'कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । तपोऽस्मिन् ये वितन्वन्ति ते गच्छन्ति शिवालयम् ' ॥५४॥ मुनिसुन्दरसूरीशां तपोगच्छखभास्वताम् । शुभशीलेन शिष्येण वृत्तिरेषा विनिर्मिता ॥५५॥
ASISESESSESESS25SS25525
॥१०॥
For Private and Personal Use Only