________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ० ॥ १२ ॥
12552
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* जायम्मि जीवलोए दो चैव नरेण सिक्खिअच्वाई। कम्मेण जेण जीवइ जेण मुओ सुग्गई जाइ ॥ २ ॥ क इत: - पद्मपुरे वैर-सिंहस्थ मेदिनीपतेः । चन्द्रलेखामुखाः पत्न्य आसन्नष्टौ सदाशयाः ॥ ७ ॥ तासामासन् क्रमात्पुत्राः पञ्च पञ्च पृथक् पृथग् । एकैका तनया वर्य-रूपाः प्रत्येकतोऽभवन् ॥ ८ ॥ पद्मा रामा रमा लक्ष्मी कमला विमलाऽचला । श्रीमतीति सुता अष्टौ बभूवुर्गुणमन्दिरम् ॥ ९ ॥ पठन्त्यः पण्डितोपान्ते सर्वाः शास्त्राणि भूरिशः । बभूवुः कोविदोत्तंसा भारतीय तनूभवाः ॥ १० ॥ * यतः - " जले तैलं खले गुह्यं पात्रे दानं मनागपि । प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः " ॥ १ ॥ भगिन्योऽन्येद्युरेकत्र मिलित्वेति जगुर्मिथः । अस्माकं कांत एकः स्याद्यदि विद्वांस्तदा वरम् ॥ ११ ॥ मूर्खश्चेज्जायते कान्तो यदा नार्याः कुकर्मतः । यावज्जीवं तदा दुःखं पृष्ठि नैव विमुञ्चते ॥ १२ ॥ अस्मत्कृत समस्यानां पूरणं यः करिष्यति । स एव रमणोऽस्माकं भवताद् वह्निरन्यथा ॥ १३ ॥ एवं कृतां प्रतिज्ञां तां पुत्रीभिरवगत्य च । भूप आकारयामास भूपानुद्वाह हेतवे ॥ १४ ॥ वीरसेनोऽपि तत्रागाद् मानितो मेदिनीभुजा । सुस्थानदानतोऽन्येपि नृपाः सन्मानिताः स्थिताः ॥ १५ ॥ सद्वेषभूषणाः सर्वा भगिन्यः सखिसंयुताः । अभ्येत्य भ्रूभुजां पार्श्वे समस्यामपृच्छन्निति ॥ १६॥ सन्वन्नू हुंति अरिहंता' सा नारी मम कथ्य्यताम् । तइआ गवरावए गीअं मूलं च सुकृतस्य कः ॥
For Private and Personal Use Only
ISA5 25 25 25 25 25 25 25 25 2552
॥ १२ ॥