________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
mainamaina
शत्रुजय कल्पवृ०
॥२७५॥
252SSDSC25252525252525
तत्र चक्री समेत्यैव सुव्रताचार्यनामकम् । प्रासादं कारयामास नाभेयप्रतिमान्वितम् ॥११३॥ इतस्तत्राजितस्वामि-वचः श्रुत्वा मनोहरम् । बहवो यतयः सिद्धि जग्मुः सर्वतमःक्षयात् ॥११४ ॥ ततः श्री अजितस्वामी प्रबोध्य भूरिशो जनान् । विजहार महीपीठं बोधितुं भविकाङ्गिनः ॥११५ ।। एकदासगरमापादेशं लब्ध्वा तनूभवाः यात्रा कर्तु मणीन् लात्वा भगीरथ्यादयो (नारीरत्नमृते )ऽचलन् ।। वन्दमानो जिनान् ग्रामे ग्रामे ग्रामे पुरे नगे । ययौ भागीरथो भ्रातृ-युतोऽष्टापदपर्वते ॥११७॥ आरुह्याऽष्टापदं शैलं भरतक्ष्मापकारिते । जिनागारे जिनानादि-नाथादीन् सोऽनमन्मुदा ॥११८ ॥ " चत्तारि अट्ठ दस दो य वंदिया जिणवरा चउवीसं । परमट्ठ निद्विअट्ठा सिद्धा सिद्धिं मम दिसंतु ॥१॥" स्नात्रपूजा-ध्वजादान-कृत्यानि रुचिरोत्सवम् । कृत्वा भगीरथश्चक्रे गीतनृत्यादि भावतः ॥ ११९ ॥ भरतेनात्मनः पूर्व जातेनादिजिनालयम् । रैमयं कारितं ज्ञात्वा भ्रातृन् भगीरथो जगौ ॥१२० ॥ लोभिनो भाविनो लोकाः प्रासादं रैमयं किल । पातयित्वा गृहीष्यन्ति हेम सर्व न संशयः ॥ १२१ ॥ तेनाऽस्य तीर्थराजस्य रक्षा धुरि विधीयते । परिखाया विधानेन परितोऽत्रानुजाः खलु ॥ १२२॥ तदा सर्वेऽनुजाः प्रोचु-र्वयं भ्रातस्त्वयोदितम् । क्रियतां परिखाऽस्यैव तीर्थस्यः परितो लघु ॥ १२३ ।। ततो दण्डेन रत्नेन ते सर्वे सगराङ्गजाः । अष्टापदस्य परितः खातिकां कर्तुमुद्यताः ॥१२४ ॥
2557SESETSSZS52525529
॥ २७५॥
For Private and Personal Use Only