________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
शत्रुजय कल्पवृ०
॥२७६॥
22SSSSZESTSTSZS22522
खनतां खातिकां तेषां परितोऽष्टापदेऽचले । अणपन्नि-प्रमुखाणां व्यन्तराणां गृहेषु तु ॥१२५॥ बह्वीं धूलीं पतन्ती तु दृष्ट्वा ते व्यन्तराः जगुः । कोऽयं दुराशयो धूली क्षिपत्यत्रात्मनो गृहे ॥१२६ ॥ युग्मम् ।। अवधिज्ञानतो ज्ञात्वा सगरस्याङ्गजा जगुः । सगरक्षोणिभुपुत्रा यूयं स्थ करुणापराः ॥१२७ ॥ किं यूयं क्षिपथास्माकं शीर्षेषु धूलिपद्धतिम् । कृपापि विद्यते नव जीवेष्वास्मादृशेष्वहो ? ॥ १२८ ॥ * यतः-अहिंसासम्भवो धर्मः स हिंसातः कथं भवेत् । न तोयजानि पानि जायन्ते जातवेदसः ॥ १२९ ।। कृपानदी-महातीरे . सर्वधर्मास्तृणाकुराः । तस्यां शोषमुपेतायां कियन्नन्दन्ति ते पुनः ॥१३० ।। निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरति ज्योत्स्नां चन्द्रश्चाण्डालवेश्मसु ॥१३१॥ 'इक्कह जीवह कारणेहि मरि म जीवसयाई। अञ्ज वि कल्ल वि मरणं पामिसि दुक्खसयाई ॥१३२॥ तैरेवं व्यन्तः प्रोक्ते भ्रातृयुक्तो भगीरथः । खातिका स्वर्नदीनीरे-भर्तुं यत्नं व्यधात्तदा ॥१३३॥ दण्डरत्नेन गंगायाः प्रवाहेन च खातिकाम् । यावद् विभर्ति सगर-पुत्रः सोदरसंयुतः ॥१३४ ॥ तावत् कर्दमपातेन ज्वलनो व्यन्तरो जगौ । पङ्कस्य पाततो नाग-लोकोऽद्य पूर्यतेतराम् ॥ १३५ ॥ गङ्गाप्रवाहनयनं तदा भगीरथादिभिः । विज्ञाय ज्वलनो नाग-नाथः प्रोवाच तान् प्रति ॥ १३६ ॥ यूयं पश्चात् कुरुध्वं स्व-नद्याः प्रवाहमञ्जसा । नो चेच्छिक्षां द्रुतं दास्ये युष्माकं पापकारिणाम् ॥१३७ ॥
B525252252SSES525252525
For Private and Personal Use Only