________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
पालयन्तौ व्रतं शुद्धं नमिश्च बिनमिश्च तौ । प्राप्य सूरिपदं भव्यान् बोधयामासतुहून् ॥३८॥ साधुकोटीद्वयान्वितौ तौ नमिर्विनभीर्यती । सिद्धाद्री जग्मतुर्ज्ञानं केवलं श्रयतःस्म तौ ॥३९॥ ऋषिकोटियुगायुक्तौ क्रमादायुःक्षयात्तदा । सिद्धाद्री जग्मुतुर्मुक्ति-नगरी तौ यतीश्वरौ ॥ ४० ॥
शत्रुजय कल्पवृ०
२५०॥
SESSESESESSESCESS
॥ श्री नमितत्पुत्रीमुक्तिगमनस्वरूपम् ॥ अथवा एवम्-अन्यदा भरतः शत्रुञ्जये नत्वा जिनेश्वरान् । उज्जयन्ते गिरौ नन्तुं चचाल यावता मुदा ॥१॥ मुनीन्द्रौ नमिविनमी प्रोचतुर्नृपति प्रति । स्थास्यावोऽत्र धरेशाऽऽवां मुनिकोटिद्वयान्वितौ ॥२॥ तेषामप्यावयोर्मुक्ति भविता सिद्धपर्वते । ततस्तान् संयतान्नत्वा भरतो रैवते ययौ ॥३॥ फाल्गुने मासि शुक्लायां दशम्यां तौ मुनीश्वरौ । साधुकोटिद्वयीसेव्यौ शुक्लध्यानपरायणौ ॥ ४॥ सम्प्राप्य केवलज्ञानं लोकालोकप्रकाशकम् । आदौ च नमिविनमी मुक्तिपु- समीयतुः ॥५॥ ततोऽन्येऽपि क्रमान्मुक्ति-पुर्या वाचंयमा ययुः । अतः सा दशमी शुक्ला सेव्या तपोविधानतः ॥६॥ उक्तं च-"तदिनेऽल्पमपि कृतं सत्तपस्तप्तमत्र च । कालोप्तमिव सद्बीजं भवेद्भरिफलप्रदम् ॥ ७ ॥ फाल्गुनीसितदशम्यां सिद्धशैलं स्पृशन्ति ये । निक्षिप्याऽखिलपापानि भवन्ति शिवभाजिनः ॥ ८ ॥
5252S52252SST52525252525E
२५०॥
For Private and Personal Use Only