________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय
कल्पवृ०
॥२४२॥
JOSTISZSZSZSTSESESSESZSE
* ध्यानमेकाग्रचित्तस्य कुर्वतस्तस्य तत्र तु । उत्पन्न केवलज्ञानं सिद्धिरासीत् मार पुनः ॥१२॥ श्रुन्वेति सिद्धशैलस्य माहात्म्यं बहवो जनाः । आदाय संयमं मुक्ति-नगरी समुपागमन् ॥१३॥ गृहीतानशनश्चैत्रराकायां भरताङ्गजः । सर्वकर्मशयान्मुक्ति नगरी समुपेयिवान् ॥१४॥ तदा वाचंयमा पञ्चकोट्योऽनशनग्रहात् । क्षिप्त्वा काखिलं मुक्ति पुर्या समागमत् किल ॥१५॥ तदा तत्र समागत्य पञ्चकोटिः यतीन वरान् । दृष्ट्वा मुक्तिं गतान् शक्र चक्रे मुक्तिगमोत्सवम् ॥१६॥ पुण्डरीको गणाधीशः प्रथमः प्रथमार्हतः । महोदयपुरीमैयुः ! (माप) पञ्चकोटियतिश्रितः ॥ १७॥ अतोऽस्य तुङ्गशैलस्य पुण्डरीकाभिधां तदा । ददौ सुरपति रि-सुरसेव्यः सदुत्सवम् ॥१८॥ ततः श्रीपुण्डरीकेति नाम ध्यायन जनो बहु । स्वर्गापवर्गसौख्यानि लभतेस्म लमिष्यते ॥ १९ ॥ पुण्डरीको गणाधीशो यत्र स्थाने मनोहरे (निर्वाण) । तत्र श्रीभरतचक्री जिनागारमकारयत् ॥ २० ॥
प्रतिमां पुण्डरीकस्य सिद्धस्य गणधारिणः । अतिष्ठिपद् युगादीश-प्रथमो नन्दनो मुदा ॥२१॥ । तामपि प्रतिमां भव्य-जनानां पश्यतां सताम् । मुक्तिर्बभूव भवति भविष्यति क्रमात् पुनः ॥ २२ ॥
चैत्रे मासे च सिद्धाद्रौ गत्वा भव्यजना मुदा । पूजां श्रीपुण्डरीकस्य कुर्वन्ते कुसुमैर्वरैः ॥२३॥ स्तोकेनैव तु कालेन ते क्षिप्त्वा निखिलं तमः । अलंकुर्वन्ति कल्याण-पुरीमशिश्रयन् क्रमात् ॥२४॥
15TSSOSSES ITSASSSTSEITISH
Ama
U॥२४२॥
For Private and Personal Use Only