________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ०
॥ २४९ ॥
SP525 25 25 250
www.kobatirth.org
एकदा ऋषभोपान्ते पुण्डरीको गणाधिपः । पप्रच्छ भगवन्! कुत्र मम मुक्तिर्भविष्यति १ ॥ १ ॥ प्रभुः प्राह सुराष्ट्रासु तुङ्गाहो विद्यते गिरिः । बिस्तरो योजनानां तु पञ्चाशच्छिवदायकः ॥ २ ॥ तत्रयातस्य ते मुक्तिर्भविष्यति गणाधिप । । अन्येषामपि साधनां बहूनां तमसः क्षयात् ॥ ३ ॥ श्रुत्वेति वृषभस्योक्तं पुण्डरीको गणाधिपः । पञ्चकोटिभि र्वाचं-यमैर्युक्तोऽचलत्ततः ॥ ४॥ ध्यानमौनपरः शत्रुञ्जये गत्वा गणाधिपः । पञ्चकोटिमितैर्वाचं-यमैर्युक्तोऽभवद्भृशम् ॥ ५ ॥
I
तदा तत्र स्थित वाद्य गणधारी सुसाधुयुग् । शत्रुञ्जयस्य माहात्म्य- मित्यवम् भविनां पुरः ॥ ६ ॥ जिनेन्द्रभवनं भव्या ये कारयन्ति मानवाः । तेषां भवति कल्याण-कमला भीमसेनवत् ॥ ७ ॥ चन्द्रोदयपुरे भीमसेनश्रेष्ठी वराशयः । अर्जयामास लक्षा दीनाराणां क्रमात् किल ॥ ८ ॥ गुरूपान्ते गतोऽन्येद्युर्भीमसेनो वणिग्वरः । प्रासादकरणे पुण्यं शुश्रावेति कृतादरम् ॥ ९ ॥ * यतः — “ अङ्गुष्ठमात्रमपि यः प्रकरोति बिम्बं वीरावसानऋपभादिजिनेश्वराणाम् । फ्र स्वप्रधानविपुलसुिखानि भुक्त्वा पश्चादनुत्तरगतिं समुपैति धीरः ॥ १० ॥ इत्यादि धर्म्ममाकण्यं भीमसेनो वणिग्वरः । यात्रां शत्रुञ्जये कृत्वाऽचीकरद् वृषभालयम् ॥ ११ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
SSP552552552592525252525
॥ २४१ ॥