________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
ESS
%3D
शत्रुञ्जय कल्पवृक
॥ २३९॥
www.kobatirth.org तदेति बहवो भव्य-जीवाः श्रुत्वा प्रभूदितम् । विशुद्धसंयतश्राद्ध-धर्म प्रपेदिरे मुदा ॥११॥ भरतोऽपि प्रमोर्वाणीं श्रुत्वा दध्याविदं हृदि । कदा ममाऽत्र वैराग्यं भविष्यति शिवप्रदम् ॥१२॥ बहवश्च प्रभोः पार्श्वे लात्वा श्री संयम वरम् । सेवां वितन्वते वैया-वृत्यादिकरणाद् दृढम् ॥१३॥ श्रेयांसः प्रभुणा सार्द्ध विहारं भुवि नित्यशः । कुर्वन् शत्रुञ्जये तीर्थे जगामानधमानसः ॥ १४ ॥ तत्र वितन्वतो ध्यानं शुक्लं श्रेयांसभूपतेः । उत्पन्नं केवलज्ञानं विश्वत्रयप्रकाशकम् ।। १५ ।। तत्रैत्य कमलो नामा श्रेयांसस्य तनूभवः । श्रेयांसाह विहारं तु कारयामास रैव्ययात् ॥१६॥ तत्र प्रथमदेवस्य बिम्ब रत्नमयं वरम् । अतिष्ठिपत् मुदा पुत्रः श्रेयांसस्य शुभेऽहनि ॥ १७ ॥ श्रेयांसः केवली भूरि-साधुश्रेणिसमन्वितः । शत्रुञ्जये समायातो बोधयन् भविनो बहून् ॥ १८ ॥ श्रेयांसः केवली भूरीन् भव्यान् प्रबोध्य सगिरा । अप्रेषयत् शिवावासं सर्वकर्मविमोचनात् ॥ १९॥ क्षीणका क्रमात् मुक्ति यदा श्रेयांस ईयिवान् । तदा शतत्रयं वाचं-यमाः शिवपुरी ययुः ॥२०॥ श्रेयांसनन्दनाः पञ्च प्राप्य दीक्षां जिनान्तिके । शत्रुञ्जये ययुर्मुक्ति-नगर्या तमसा क्षयात् ॥ २१ ॥ श्रेयांसपुत्रपुत्राश्च विंशतिर्मदनादयः । तीर्थे शत्रुजये यात्रां चक्रुविस्तरतः क्रमात् ॥ २२ ॥ तेषां मध्ये शिवं जग्मुर्दश सिद्धमहीधरे सर्वार्थाढे विमाने तु दशापि प्रययुस्ततः ॥२३॥
ISZSSSSSSESSES222SSEE
2525252525
॥ २३९॥
For Private and Personal Use Only