________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
SSSES
शत्रुजय H
ततः प्रविश्य पुर्यन्तर्दवा वप्राररिं दृढम् । विमृश्य मन्त्रिणा सार्द्ध नंष्टुकामोऽभवन्नृपः ॥१४॥ कियती कमलां लात्वा पत्नीनन्दनमन्त्रियुक् । राजा छन्नं पुराद्रात्रौ निर्ययौ जीवितेच्छया ॥१५॥ * यतः-अमेध्यमध्ये कीटस्य सुरेन्द्रस्य सुरालये । समाना जीविताकाङ्क्षा समं मृत्युभयं द्वयोः ॥१॥॥ TH सव्वे जीवावि इच्छन्ति जीविउं न मरिजिउ । तम्हा पाणवहं घोरं जावज्जीवाइ वज्जए ॥२॥॥
गतं भूपं प्रगे ज्ञात्वा वैर्यभ्येत्य पुरान्तरे । मदनक्षमापते राज्य–मलंचक्रे सुखेन सः ॥१६॥ कल्पवृ० १ यावन्मदनभूपालो गच्छन् पल्लयां ययौ कमात् । तावद्भिल्लैहता सर्वा लक्ष्मीस्तस्य महीपतेः ॥ १७॥
* यतः-गतसारेऽत्र संसारे सुखभ्रान्तिः शरीरिणाम् । लालापानमिवाङ्गुष्ठे बालानां स्तन्यविभ्रमः ॥१॥॥ * सम्पदो जलतरङ्गविलोला यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव चञ्चलमायुः किं धनाद्यैः कुरुत धर्ममनिंद्य॥२॥
गतायां श्रियि निःशेषः परिवारोपि गतः क्वचित् । एक एव स्थितो मन्त्री स्वामिभक्तिपरायणः ॥१८॥ बुभूक्षापीडितो भूपः पत्नीतनयमन्त्रियुग । स्वनिर्वाहं फलैश्चक्रे जीवितेच्छुरनारतम् ॥ १९ ॥ चलन्नुमापुरेऽभ्येत्य भूपः स्थित्वा क्वचिद् गृहे । काष्ठादिविक्रयाच्चक्रे निर्वाहं कष्टतो निजम् ॥२०॥ तदा मन्त्र्यपि कष्टेन बिभ्राणः स्वोदरं स्वयम् । भूपपृष्टिं न मुञ्चेत क्षणमेकं सुभक्तितः ॥२१॥ * यतः-'चित्तज्ञः शीलसंपन्नो वाग्मी दक्षः प्रियंवदः । यथोक्तवादी स्मृतिमान मन्त्रीशः श्लाघ्यते जनैः। ॥१॥
2SPSSESSISESTI
ESSSSSSS ESESTESTISESSE
॥
७
॥
For Private and Personal Use Only