________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
।
शत्रुञ्जय कल्पवृ०
॥२३६॥
SESESESESESESEST2SPSESSES
* राज्यं चलाचलं प्राज्यं योक्नं च पतापतम् । लक्ष्मीश्वराचरा यत्र भवे तंत्र स्थिरं कथम् ॥ ५८ ।। माता पिता कलत्राणि बान्धवाः पुत्रसम्पदः । जन्तूनां भवकूपान्तःपततां कोऽपि नाऽविता ॥ ५९॥ * अनित्यमारोग्यमनित्ययौवनं विभूतयो जीवितमप्यनित्यम् । 卐
अनित्यताभिप्रहतस्य जन्तोः कथं रतिः कामगुणेषु जायते ॥६॥ इत्यादि भावनाभावादनित्यं भावयन् हृदि । भरतः परविद्वारि-मग्नोऽजनि दृढं तदा ॥६१ ॥ सुध्यानपारदं देह-भाजने न्यस्य चक्रिराट् । सुभाववह्निना पक्वं चक्रे कल्याणसिद्धये ॥ ६२ ॥ क्षपकश्रेणिमारूढः क्षपन् दुःकर्मसन्ततिम् । भरतः केवलज्ञानं प्रपेदे विश्वबोधकम् ॥ ६३ ॥ उपेत्य तत्क्षणात् देव-नाथेन कुर्वता महः । यतिलिङ्गे वितीर्णे तु रुचिरे हेमविष्टरे ॥ ६४ ॥ उपविश्यादिमश्चक्री दिदेश धर्मदेशनाम् । तथा यथाऽभवद्भरि नृणां वैराग्यमञ्जसा ॥६५॥ युग्मम् ।। नृपा दश सहस्राणि भरतस्यान्तिके व्रतम् । लात्वा तदा तपस्तेषु-रुग्रं भवतमश्छिदे ॥६६॥ धर्म प्रबोधयन् भव्यान् पूर्व लक्षं च वत्सरान् । भरतषिर्ययावष्टा-पदे तीर्थे शिवप्रदे ॥ ६७ ।। कृत्वा चतुर्विधाहारं मासान्ते भरतो यतिः । अलञ्चक्रे शिवं क्षेत्रं सिद्धानन्तचतुष्टयः ॥ ६८ ॥ तदान्ये साधवो भूरि-लक्षाणि पातकक्षयात् । जग्मुरष्टापदे तीर्थे मुक्तिपुर्या शिलोचये ॥६९ ॥
IPST25525252SSZESESSEE
१२३६॥
For Private and Personal Use Only